2023-02-15 17:22:05 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके सुग्रीचाऽभिषेको नाम पष्ठः सर्गः- १२१
कीर्षितज्ञानपरो बभूवेत्यर्थः । पूर्ववदाम् । अनिशम् अविच्छेदेन । ( अनिशमिति
निशाक्रियाविच्छेदो नास्ति यस्मिन् प्रजागरण इति । निशेति क्रियाविच्छेदोपल-
क्षणम् । प्रायेण हि निशायां क्रियाणामप्रवर्तनम् । ) किमिति जागरितवानित्याह ।
काकुत्स्थादसौ प्रबिभयांचकार प्रभीतवान् । '२४९१॥ भी ही ।३।१।३९ ।'
इत्यादिनाम् । ध्रुवत्कार्ये धातोर्गुणायादेशौ । अभिशङ्कितः किमयं करिष्यतीति ॥
२९४ - न जिइयांचकारा ऽथ सीताम॑भ्यर्थ्य तर्जितः ॥
नप्यूर्जी बिभरामास वैदेह्यां प्रसितो भृशम् ॥ ३॥
M
न जिड़यांचकारेत्यादि- सीतामभ्यर्थ्य याचित्वा न जियांचकार न
लज्जितः । तर्जितः भसितोऽपि तयैवेत्यर्थात् । नाप्यूर्जा बलं बिभरामास धारि-
तवान् । '२२३९॥ कृञ्- । ३।१॥४०॥' इति प्रत्याहारग्रहणादस्तेरप्यनुप्रयोगः ।
हीधातोर्गुणायादेशौ । '११६२ । डुभृञ् धारणपोषणयोः' उभयत्रापि पूर्ववदाम्
ध्रुवच्च । कथं न धारितवान् इत्याह । वैदेह्यां प्रसितः प्रसक्तः । भृशमत्यर्थम् ॥
२९५ - विदांकुर्वन्तु रामस्य वृत्तमित्येवदत् स्वकान, ॥
रक्षांसि रक्षितुं सीतामा॑शिषच् च प्रयत्नवान् ॥ ४॥
विदांकुर्वन्त्वित्यादि – स्वकानात्मीयान् शुक्रतारणादीन् अवददुतवान् ।
किमित्याह -- रामस्य वृत्तमनुष्ठितं किं तस्येहागन्तुमुद्यमोऽस्ति न वेति विदांकुर्व-
न्तु । '२४६५ । विदांकुर्वन्त्वित्यन्यतरस्याम् ।३।१॥४१॥ इति निपातितम् । सीतां
रक्षितुं रक्षांसि आशिषदादिष्टवान् । शास: '२३८२ । सर्ति ।३।१।५६।' इत्यङ् ।
'२४८६ । शास इदङ्हलोः ।६।४॥३४॥ इति शासेरुपधाया इत्वं '२४१०१ शा-
सि-वसि - ।८।३।६०।' इति षत्वम् । प्रयत्नवान् प्रयत्नपरः । आमधिकारो गतः ॥
अथ प्रकीर्णका:-
अथ प्रकीर्णश्लोकानाह
२९६ - रामोऽपि हत- मारीचो निवर्त्स्यन् खर-नादिनः ॥
क्रोष्टून् समशृणोत् क्रूरान् रसतो ऽशुभ-शंसिनः ॥५॥
-
राम इत्यादि - हतमारीचो रामोऽपि निवर्त्स्यन् प्रत्यागमिष्यन् । वलादि-
लक्षण इटि प्राप्ते ' २३४८ । न वृद्भ्यः ।७।२।५९ ।' इतीनिषेधः । क्रोष्टून् शृगा-
लान् । रसतः शब्दायमानान् । समशृणोत् संश्रुतवान् । सकर्मकत्वात् । २६-
९९। समो गम्यृच्छि—।१।३।२९।' इत्यात्मनेपदं न भवति । लङि रूपम् । क्रूरान्
भीषणान् । यतः खरनादिनः खरवन्नदन्ति । '२९८९ । कर्तरि । ३।२।७९१ । इति
णिनिः । अशुभशंसिनः अनिष्टसूचनशीलान् ॥
भ० का० ११