This page has not been fully proofread.

१२०
 
भट्टि काव्ये — द्वितीयेऽधिकार-काण्डे लक्षण-रूपे षष्टो वर्गः,
२९१ - प्रलुठितम॑वनौ विलोक्य कृत्तं
 
दश वदनः ख-चरोत्तमं प्रहृष्यन् ॥
रथ - वरम॑धिरुह्य भीम-धुर्य
 
स्व पुरम॑गात् परिगृह्य राम-कान्ताम् ॥१०८॥
 
प्रलुठितमित्यादि- - खचराः पक्षिणः । खे चरन्तीति अधिकरणे '२९३० ।
चरेष्टः ।३।२।१६।' तेषामुत्तमं जटायुं कृत्तं छिन्नं लूनपक्षत्वात् । अवनौ भुवि
प्रलुठितं विलोक्य ग्रहृप्यन् हर्षं प्राप्नुवन् विवृत्तो विघ्नकारीति दशाननो रथवरं
स्मरणात् प्राप्तं पुष्पकाख्यमारुह्य भीमथुर्य रामकान्तां सीतां तथैव परिगृह्य
खपुरमगात् गतवान् ॥
 
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये -
द्वितीयेsधिकार-काण्डे लक्षण-रूपे पञ्चमः परिच्छेदः (वर्गः )
तथा लक्ष्य रूपे कथानके सीता हरणः श्री-राम-प्रवासो
नाम पञ्चमः सर्गः पर्यवसितः ॥ ५ ॥
 
षष्ठः सर्गः-
अत्राधिकारस्यापरिसमाप्तत्वात्तमेवाममधिकृत्याह-
२९२ - ओषांचकार कामऽग्निर् दश वक्रम॑हर् - निशम् ॥
विदांचकार वैदेहीं रामादन्य-
निरुत्सुकाम् ॥ १ ॥
 
-
 
ओपांचकारेत्यादि – अथशब्दो वक्ष्यमाणतृतीय होके यः सोऽत्र दृष्टव्यः ।
अथ तस्मिन् सीतापरिग्रहे जाते कामाग्निः कामोऽझिरिव दशवक्रं दशाननमो-
पांचकार ददाह । '७४६ । उपँ दाहे' । '२३४१॥ उष- विद - ।३।१।३८।' इत्याम् ।
अहर्निशं अहश्च निशा च । 'सर्वो द्वन्द्वो विभाषैकवद्भवति' इत्येकवद्भावात् ।
८५५८। कालाध्वनोरत्यन्तसंयोगे ।२।३।५।' इति द्वितीया । अह्नो नकारस्य
१७२ । रो सुपि ।८।२१६९१ । इति रत्वम् । कस्माद्द्दाह इत्याह । रावणो
वैदेहीमन्य निरुत्सुकां रामादन्यस्मिन् सर्वत्र निरभिलाषां विदांचकार अगुणत्वं
विदेस्तथेति विदेरकारान्तनिपातनात् गुणाभावः ॥
 
१९३ - प्रजागरांचकारारेरौहास्व॑निशर्मादरात् ॥
 
."
 
प्रविभयांचकारो ऽसौ काकुत्स्थादभिशङ्कितः ॥ २ ॥
प्रजागरांचकारेत्यादि- अरे रामस्य ईहासु चेष्टासु । '३२८०। गुरोश्च-
।३।३।१०३।' इत्यकारः । आदरादादरेण प्रजागरांचकार जागरितवान् । शत्रुचि-
१ - ( १८२ ) लोकस्थं टीकनं प्रेक्ष्यम् ।