This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः- ११७
२८२ - अहम॑न्त करो नूनं ध्वान्तस्यैव दिवा-करः ॥
 
(
 
तव राक्षस ! रामस्य नेयः कर्म-करोपमः ॥ ९९ ॥
अहमित्यादि — हे राक्षस ! अहं तव नूनमवश्यमन्तकरः विनाशयिता ।
कीदृशः । रामस्य नेयो वश्यः । २८४२। अचो यत् ।३।१।९७१' कर्मकरोपमः
भृतकतुल्यः । '२९३६। कर्मणिभृतौ । ३।२।२२।' इति: । ध्वान्तस्येव दिवा-
करः । यथान्धकारस्यान्तकरो दिवाकरः सूर्यः तथा । अन्तकरदिवाकरौ '२९३५ -
दिवा- विभा –।३।२।२१।' इति टप्रत्ययान्तौ । एवमुक्त्वा खं पपातेति सम्बन्धः ॥
२८३ - सताम॑रुप्-करं पक्षी वैर-कारं नरा॒ऽशिनम् ॥
 
हन्तुं कलह-कारोऽसौ शब्द-कारः पपात खम् ॥१००।
सतामित्यादि — एवमुक्त्वा असो जटायु: पक्षी खमाकाशं पपात पतितः ।
किमर्थं नराशिनं राक्षसं हन्तुं हनिष्यामीति । कीदृशं राक्षसम् । सतामरुष्करं
धर्मे स्थितानां पीडाकरम् । अरुःशब्दः पीडोपलक्षणपर: । '२९३५ । दिवा-वि-
भा - ३।२।२१।' इति टः । वैरकारं वैरकरणशीलम् । कलहकारः पक्षी कलहयि-
तुमनुकूलः । अनयो: ' २९३७ । न शब्द- श्लोक - ।३।२।२३॥ इति टे प्रतिषिद्धे-
Sणेव भवति । कर्मण्यणः प्राप्तिरस्तीति टाधिकार उदाहृतः । कियत्वं पपात ।
यावति दूरे शब्दपातस्तावत्खमिति ॥
 
॥ टाधिकारः समाप्तः ॥
 
अतः परं प्रकीर्णकाः ।
 
इतः प्रकीर्णकश्लोकानाह
 
२८४ - धुन्वन् सर्व-पथीनं खे वितानं पक्षयोरसौ ॥
 
मांस - शोणित - संदर्श तुण्ड-घातम॑युध्यत ॥ १०१ ॥
धुन्वन्नित्यादि-असौ पक्षी अयुध्यत युध्यते स्म । युधैर्देवादिकस्य लङि
रूपम् । तुण्डवातमिति क्रियाविशेषणम् । तुण्डेन चळवा घातो हननं यस्मिन्
युद्ध इति । '३४५८ । करणे हनः । ३ । ४ । ३७' इति न णमुल ' ३३६७ । कषादिपु
यथाविध्यनुप्रयोगः ।३।४।४६॥ इति वचनात् अहिंसार्थव्वाच्च तदारम्भस्य यथा
पादघातं भूमिं हन्तीति । '३३६८ । हिंसार्थानां च समानकर्मकाणाम् ।३।४/-
४८८' इत्यनेनापि न भवति समानकर्मकताभावात् । अकर्मकत्वायुधेः । तेन
भावे घञ् । धुन्वन् कम्पयन् खे आकाशे पक्षयोर्वितानम् । सर्वपथीनं सर्वः
पन्था इति '७२७ । पूर्वकाल ।२।१॥४९॥ इत्यादिना सः । '९४० । ऋक् - पू:--
५॥४॥७२॥ इति समासान्तोऽकारः । सर्वपथान् व्यामोतीति '१८०८ । तत्सर्वादेः-
५॥२॥७॥' इत्यादिना खः । मांसशोणितसन्दर्श कार्येन मांसं शोणितं च दृष्ट्वा ।
'३३५०। कर्मणि दृशि-विदोः साकल्ये । ३।४।२९॥ इति णमुल् । '७८३ । अमै-
वाम्ययेन ।२।२।२०।' इति सः ॥