2023-02-15 17:22:04 by ambuda-bot
This page has not been fully proofread.
११६ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे पथगो वर्गः,
उच्चैरित्यादि — तां सीतां जटायुः पक्षीन्द्रः । रावणं परुपं निष्ठुरं वदन्
प्राप प्राप्तवान् । कीदृशीम् । उच्चै रारस्यमानाम् । 'हा राम, हा लक्ष्म 'इत
शब्द उच्चैर्महता ध्वनिना पुनः पुना रसन्तीमित्यर्थः । रसे: शब्दकर्मक-
त्वात् क्रियासमभिहारे यङ् । कृपणां दीनाम् ॥
।
॥ इति प्रकीर्ण-काण्डम् ॥
॥ अतः परमधिकार काण्डम् ॥
तत्र प्रथमं टाधिकारः-
इतः परमधिकारकाण्डमुच्यते । यत्र प्राधान्येनैकैकमधिकृत्य लक्षणं प्रदर्शितं
तदधिकारकाण्डम् । शेपलक्षणेपु प्रकीर्णकमेव दृष्टव्यम् । एवं च कृत्वा अन्त-
रान्तरा तत्सूचनार्थ प्रकीर्णकश्लोकाभिधानम् । अन्न च काण्डे निर्दिष्टसंज्ञका-
चत्वारः परिच्छेदाः । तत्र प्रथमे आद्यं प्रत्ययमधिकृत्योच्यते । सर्वार्थस्य विव
क्षितस्यापरिसमाप्तत्वात् तमेवाभिसन्धायाह -
-
२८० - 'द्विषन् ! वने- चरायाणां त्वर्मादाय-चरो वने ॥
-
अग्रेसरो जघन्यानां मा भूः पूर्व-सरो मम ॥ ९७॥
द्विपन्नित्यादि — एवं कृत्वा मिश्रक उच्यते द्वयोरप्यत्र प्राधान्येन विव-
क्षितत्वात् । परुपं वदन् । कीदृशम् । हे द्विषन् ! मा भूः पूर्वसरो ममेति ।
ममाग्रतो भूत्वा मा गा इत्यर्थः । पूर्व सरतीति २९३३ । पूर्वे कर्तरि ।३।२।१९॥
इति टः । यतस्त्वमग्रेसरो जघन्यानाम् । अग्रेसरतीति '२९३२ । पुरोऽग्रत:-
१३।२।१८।' इत्यादिना : । जवन्य इति '२०५८ । शाखादिभ्यो यः ।५।३।१०३ । '
इतीवार्थे यः । पापानां प्रथमस्त्वम् । कुतः आदायचरो वने । आदाय चरतीति
'२९३१ । भिक्षा-सेना । ३।२।१७।' इत्यादिना । वने चरन्तीति वनेचराः । अधि-
करणे चरेष्टः । तेषामग्र्याः प्रधाना ऋषयः । तानादाय चरसि भक्षयसि ।
कर्मणि षष्ठी ॥
२८१ - यशस् - कर - समाचारं ख्यातं भुवि दया करम् ॥
पितुर्वाक्य-करं रामं धिक् त्वां दुन्वन्तर्म-त्रपम् ॥ ९८ ॥
यशस्करेत्यादि — रामं दुन्वन्तमुपतापयन्तमत्रपं निर्लज्जं धिक् त्वाम् ।
गर्हा । '१३३६। टुहुँ उपतापे' इत्यस्य भौवादिकस्य शतरि '२३८७ । हु-ध्रुवो:-
-सार्वधातुके ॥६।४।८७ ।' इति यणादेशे रूपम् । कीदृशं रामम् । यशस्करसमा
चारम् । समाचरणं समाचार: चरितं भावे घञ् । यशस्करोतीति यशस्करः ।
'२९३४ । कृञो हेतु । ३।२।२०।' इत्यादिना टः । ११३८ विसर्जनीयस्य सः
।८।३।३४।' यशस्करणहेतुभूतः समाचारो यस्य । ख्यातं भुवि प्रसिद्धं दयाकरं
करुणाकरणशीलम् । ताच्छील्ये ट: । पितुर्वाक्यकरं पितुर्वचनानुष्ठाने अनुकूलम् ।
आनुलोम्ये टः ॥