2023-02-15 17:22:04 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः-
११९
भिप्रायाभावाभावेऽनुप्रयोगे तङ् न भवति । सुरांच पश्यतो युद्धं जटायुः पिप्राय
प्रीणितवान् । शत्रुत्रासनं सीतात्याजनं च देवानां प्रीतेः कारणम् ॥
२८८ - अ - सीतो रावणः कासांचकें शस्त्रैर् निराकुलः ॥
भूयस् तं भेदिकांचक्रे नख - तुण्डाऽऽयुधः खं गः. १०५
असीत इत्यादि - असीतः परित्यक्तसीतो रावणः आकाशस्थः कासांचक्रे
कुत्सितमभिहितवान् । एह्येहीति विहगाधिपेति । '६६६ । का शब्दकुत्लायाम्
इत्यनुदात्तेत् । '२३८६ । कास्- ।३।१।३५।' इत्यादिना आम् । शस्त्रैः । इत्थ-
म्भूते तृतीया । निराकुलः पूर्वं बाहुभिः सीताग्रहणे व्याकुलत्वात् । भूयः पुन-
रपि । खगः पक्षी । डप्रकरणे ' ३०११ । अन्येष्वपि दृश्यते ।३।२।१०१॥ इति
वचनात् गमेड: । तं निशाचरं बेभिदांचक्रे अत्यर्थ भिन्नवान् । वेभिद्यतेर्यङ-
न्तादाम् । नख-तुण्डान्येवायुधानि यस्य ॥
२८९ - हन्तुं क्रोध वशादीहांचऋाते तो परस्परम् ॥
"
नवा पलायांचक्रे विरं दयांचक्रे न राक्षसः ॥ १०६ ॥
हन्तुमित्यादि -- तौ पक्षि- रावणौ क्रोधवशात् क्रोधाधीनतया परस्परम-
न्योन्यं हन्तुमीहांचक्राते चेष्टां कृतवन्तौ । '२२३७ । इजादेः -- ।३॥।३६।' इत्या-
दिना आम् । विः पक्षी । जनि-वसिभ्यामित्यधिकृत्य 'वेजो डिच्च' इत्यौणादिक
इक् । न वा नैव । वाशब्द एवार्थे । पलायांचक्रे पलायितः । '२३२६ । उपसर्ग-
स्वायतौ ।८।२।१९। इति लत्वम् । राक्षसश्च न दयांचक्रे न दयतेस्म ।
पक्षिणं खल्वहं कथं व्यापादयामीति । उभयत्रापि '२३२४ । दयायासश्च ।
।३।१।३७।' इत्याम् ॥
२९० - उपासांचक्रिरे द्रष्टुं देव- गन्धर्व - किन्नराः ॥
छलेन पक्षौ लोलूयांचत्रे क्रव्यात् पतत्रिणः ॥ १०७ ॥
उपेत्यादि – देवगन्धर्वकिन्नरा द्रष्टुं युद्धं द्रक्ष्याम इति उपासांचक्रिरे
उपगताः । पूर्ववदाम् । ऋव्याद् रावणः । ऋव्यं मांसमत्तीति ऋव्यात् । '२९७७॥
अदोन ।३।२।६८॥ इति विट् । पतत्रिणः पक्षिणः पक्षौ लोलूयांचत्रे अत्यर्थ
लूनवान् । यङ्प्रत्ययान्तत्वादाम् । छलेन मायया प्रसह्य जेतुं न शक्यत इति ।
भल्लेनेति पाठान्तरम् ॥
१ – '१२२५॥ शराऽर्क विहगाः खगाः ॥ २- '५३३ । पतत्रि-पत्रि-पतग-पतत्-पत्ररथाs-
ण्डजाः । नगौको-वाजि - विकिर - वि- विकिर-पतत्रयः ॥' ३ - '६७। राक्षसः कौणपः ऋव्यात्
कन्यादोऽनप आशरः ॥ इति सर्वत्र ना० अ० ।