This page has not been fully proofread.

११८ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे पवमो वर्गः,
 
-
 
२८५ - न विभाय, न जिहाय, न चक्लाम, न विव्यथे ॥
आम्नानो विध्यमानो वारणान् निववृते न च ॥ १०२३॥
नेत्यादि-आनानः पक्षी ग्रहरन् । '२६९५ । आङो यमहनः ॥३।२०।
इति तङ् । न विभाय न भीतः । तस्मान्न जिह्वाय न लज्जितः । सभ्यङ् मया
न हत इति न चक्काम न क्लान्तः । न विव्यथे । '२३५३ । व्यथो लिटि १७॥४॥
६८।' इति सम्प्रसारणम् । जितश्रमत्वात् । विध्यमानो वा । वाशब्दश्चार्थे ।
परेण हन्यमानश्च न विव्यथे न पीडां भेजे । सत्याधिकत्वात् । रणाच्च न निव-
वृते न निवृत्तः । अभग्नोत्साहत्वात् ॥
 
२८६ - पिशाच-मुख- धौरेयं स च्छत्र-कवचं रथम् ॥
 
युधि कद् रथ-वद् भीमं वभञ्ज ध्वज-शालिनम् १०३
पिशाचेत्यादि - युधि संग्रामे पक्षी रथं बभञ्ज भनवान् । तस्य पुष्पका-
दन्यत्वात् । तथा हि कद्र्थवत् कुत्सितरथमिव । '१०२८। रथ वयोश्च ।६।३।
१०२ । ' इति कदादेशः । धुरं वहन्ति धौरेया अश्वाः । १६२८ । धरो यड्ढको
।४।४।७७।' । पिशाचस्येत्र सुखं येषां ते धोरेया यत्र रथे तं पिशाचमुखधौरेयम् ।
सच्छोभनं छत्रं कवचं च यस्मिन् । तं भीमं भयानकं तथा धुर्यत्वात् । ध्वज-
शालिनं ध्वजवन्तम् । शालिन्शब्दः किन्प्रत्ययान्तस्तद्वन्तमाह । अन्यस्त्वाह
ध्वजेन शालितुं श्लाघयितुं शीलमस्येति णिनिः । अनेकार्थत्वादातूनामिति ॥
एते प्रकीर्णकाः ॥
 
अतः परं आमधिकारः ।
 
इतः प्रभृत्याममधिकृत्याह-
,
 
२८७ - संत्रासयांचकारोऽरिं, सुरान् पिप्राय पश्यतः ॥
स त्याजयांचकारोऽरि सीतां विंशति-बाहुना ॥ १०४॥
सन्त्रासयामित्यादि – अथैतस्मिन् युद्धप्रस्तावे स पक्षी सीतां विंशतिबा-
हुना रावणेन त्याजयांचकार त्याजितवान् । गत्यादिषु त्यजेरसंग्रहात् तृतीयैव
भवति । कस्मात्याजितवानित्याह । सन्त्रासयांचकारारिं यस्मादरिं रावणं
त्रासितवान् । अकर्मकत्वात् त्रासेर्ण्यन्तावस्थायामरेः कर्मस्वम् । आभ्यां
हेतुमण्ण्यन्ताभ्याम् '२३०६ । कास्प्रत्ययात् - ३।१।३५।' इत्यादिना आम्। आमो-
sमित्वमदन्तत्वात् । '२२३८ । आमः ।२।४॥८१ ।' इति लुक् । '२३११॥ अया-
मन्त- ६।४।५५।' इत्यादिना अयादेशः । आमकारान्तस्य कृत्संज्ञायां प्रातिपदि-
कत्वे प्रथमैकवचनम् । तस्य ४५२ । अव्ययात् ।२।१४।८२॥ इति लुक् । स्वरादिषु
'अम् भाम्' इति पठितत्वादव्ययत्वम् । आमन्तस्यानमिव्यक्ऋपदार्थत्वात् '२२-
३९। कृञ्चानुप्रयुज्यते ।३।१।४० ।' इत्यादिना लिट्परस्य कृञो ऽनुप्रयोगः । कर्त्र-