This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः-
११५
 
२७६ मा स्म भूर् ग्राहिणी भीरु ! गन्तुमु॑त्साहिनी भव ॥
 
उद्भासिनी च भूत्वा मे वक्षःसंमर्दिनी भव' ॥ ९३॥
मा स्पेत्यादि - हे भीरु ! मा स्म भूर्ग्राहिणी प्रतिकूला मा भूः । न यास्या-
मीत्यसमर्थ गृह्णामीति कृत्वा । '२२२० । स्योत्तरे लडू च ।३।३।१७६।' इति
चकारात् लुङ् । गन्तुमुत्साहिनी उयुक्ता भव । '३१७७ । शक-प-।३।४।६५।
इत्यादिना तुमुन् । उत्साहिनीति सहोपपदत्वात् । ततश्चालंकृतशरीरत्वादुङ्गा-
सिनी शोभमाना भूत्वा नो ऽस्माकं वक्षःसंमर्दिनी स्तनाभ्यामुरःस्थलस्य पीडिका
भव । ग्रहोत्साहोद्भाससँमर्दानां ग्रहादिपु पठितत्वात् कर्तरि णिनिः । '३०६॥
ऋन्नेभ्यो डीप् ॥४।१५॥
 
२७७- तां प्रातिकूलिकीं मत्वा जिहीपुर भीम-विग्रहः ॥
 
-
 
वाहूपपीडमाश्लिष्य जगाहे द्यां निशा चरः ॥ ९४ ॥
तामित्यादि —— यदैवमभिधीयमाना न प्रतिपन्ना तदा तां प्रातिकूलिकों
प्रतिकूलवर्तिनी मत्वा ज्ञात्वा । 'ओजःसहोम्भसा वर्तते' इत्यधिकृत्य प्रतिकूलं
वर्तत इत्यस्मिन्नर्थे ' १५७८ । तत्प्रत्यनुपूर्व । ४।४।२८।' इत्यादिना ठक् । जिहीर्षुः
हर्तुमिच्छुः । भीमविग्रह: भीषणशरीरः । दृष्टराक्षसशरीररूपः । सुखेन ह्रियत
इति बाहूपपीडमालिप्य बाहुभिरुपपीड्य । '२३७० । सप्तम्यां चोपपीड-
।३॥४।४।१९॥ इति चकारात् तृतीयान्त उपपदे णमुल । जगाहे रथेनोत्पत्य द्यामा-
काशं निशाचरी गाहते स्म । दिवशब्दसमानार्थी द्योशब्द औणादिकः । 'गमेडर्डोः '
इत्यत्र तेश्चेति वचनात् । '२८५४ औतोऽम्शसोः ।६।१।१३।' इत्याश्वम् ।
कालापिनस्तु दिवशव्दादेव व्युत्पादयितुं सूत्रमधीयते वाम्येति । दिवः अमि
विकल्पेनाकारा देश इति ॥
 
२७८ - त्रस्यन्तीं तां समादाय यतो रात्रं- चराऽऽलयम् ॥
 
तूष्णीं भूय भयादासांचक्रिरे मृगपक्षिणः ॥९५ ॥
त्रस्यन्तीमित्यादि – त्रस्यन्त च तां तद्रूपदर्शनात् समादाय गृहीत्वा
यतो गच्छतो रावणात् । याते: शतरि पञ्चम्या रूपम् । किं यातो रात्रिचरालयं
लङ्काम् । रात्रौ चरतीति '२९३० । चरेष्टः । ३।२।१६॥१००८ रात्रेः कृति
विभाषा ।६।३॥७२।' इति मुम् । तस्माद्रावणाद्यद्भयं ततो भयात् तूष्णीम्भूय ।
'३३८५॥ तूष्णीमि भुवः ।३।४।६३॥ इति '७८५ । क्त्वा च ।२।२।२२।' इति
समासे ल्यबादेशः । आसांचक्रिरे आसिताः । '२३२४ । दयायासश्च ।३/१/-
३७ ।' इत्याम् । मृगपक्षिणः मृगाश्च पक्षिणश्च । समानजातीयानामिति वचना-
देकवद्भावोऽत्र न भवति ॥
 
२७९-
उच्चै रारस्यमानां तां कृपणां राम-लक्ष्मणौ ॥
 
जटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन् । ९६ ॥
॥ इति प्रकीर्ण-काण्डः प्रथमः समाप्तः ॥