This page has not been fully proofread.

११४
 
भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे वर्गः,
 
-
 
दुर्गावस्थित्यानभिभवनीयतां रखोपचयात्समृद्धतां कथयन् प्रलोभयति-
२७३ - आवासे सिक्त-संमृष्टे गन्धैस् त्वं लिप्त-वासिता !।
 
अर्पितोरु-सुगन्धि-स्रक् तस्यां वस मया सह ॥ ९० ॥
आवास इत्यादि-तस्वां पुर्या आवासे गृहे । आवसत्यस्मिन्निति अधिक-
रणे घञ् । मया सह त्वं वस । प्रार्थनायाँ लोट् । सिक्तसंमृष्टे पूर्व सिक्के पश्चा-
संमृष्टे । गन्धैर्लिप्तवासिता सती पूर्व लिप्ता चन्दनादिभिर्गन्धैः पश्चाद्वासिता
धूपिता । संभृष्टादिभिः '७२६ । पूर्वकाल - १२।१।४९॥ इत्यादिना सः । अर्पिता
न्यस्ता उर्वी महनी सुगन्धित्र सुरभिमाला यस्यां सा त्वम् ॥
 
किमिति त्वया सह वसामीति चेदाह -
 
२७४ - संगच्छ पौंस्त्रि ! स्त्रैणं मां युवानं तरुणी शुभे ! ॥
 
राघव: प्रोप्य - पापीयान्, जहीहि तर्म किं-चनम्. ९१
संगच्छेत्यादि-हे पौंस्त्रि ! पुमांसमर्हति तद्धिता वा । अर्हार्थे हितार्थे
चा '१०७९॥ स्त्री-पुंसाभ्यां नज्-स्त्रजौ-1५/११८७१' स्त्रीप्रत्यये 'नञ्-स्त्रञीकक्-
ख्युंस्तरुण-तलुनानामुपसंख्यानम्' इति । मां युवानं तरुणं संगच्छ अङ्गीकुरु ।
गमे: प्रार्थनायां लोट् । '२४००। इषु गमि-।७।३१७७ ।' इत्यादिना छत्वम् ।
'२६९९। समो गम्वृच्छि-।१।३।२९।' इत्यादिना तङ् न भवति सकर्मकत्वात् ।
विशेषतः स्त्रैणं स्त्रियै हितमर्हन्तं वा । पूर्ववव्यत्ययः । तरुणी युवती सती शुभे
कल्याणि शोभत इति इगुपधलक्षणः कः । ममापि तादृशो भर्तास्तीति चेदाह-
राघवः प्रोष्यपापीयानिति । पापशब्दात् '२०२० । विन्मतोर्लुक् । ५।३॥६५।' इति
ईयसुन् लुक्क मतुपः । प्रोष्यपापीयानिति ८७५४ । मयूरव्यंसकादयश्च ।२।११७२
इति सः । देशान्तरं यात्वा पापवत्तरः । तमकिञ्चनं दरिद्वम् । न विद्यते किंचन
यस्येति । 'सर्वनामाव्ययसंज्ञाया उपसर्जनप्रतिषेधः' इति वचनान्नाव्ययसंज्ञा ।
तेन न विभक्तिलोपः । जहीहि त्यज । ईत्वस्य '२४९८। जहातेश्च । ६।४।११६ । '
इति वा वचनाद्विकल्पः ॥
 
२७५ - अनीत- पिबतीयन्ती प्रसिता स्मर-कर्मणि ॥
 
वशे-कृत्य दश - ग्रीवं मोदस्व वर मन्दिरे ॥ ९२ ॥
 
· अनीतेत्यादि-अनीतपिबतेति '७५४ । मयूरव्यंसक - ।२।१।७२१' इत्यादि-
त्वात् सः । तत्र हि 'आख्यातमाख्यातेन क्रियासातत्ये' इति पठ्यते । सततमश्रीत
पिबतेत्येवं भृत्यजनानादेष्टुमिच्छतीति '२६५७ । सुप आत्मनः क्यच् ।३।१।८।'
अनीतपिबतीयन्ती । प्रसिता स्मरकर्मणि आधिक्येन प्रवृत्ता कामव्यापारे ।
'६४१॥ प्रसितोत्सुकाभ्यां तृतीया च ।२।३।४४।' इति चकारात् सप्तमी । वशे-
कृत्यानुवर्तिनं दशग्रीवं कृत्वा । '७७५ । साक्षात्प्रभृतीनि च ।१।४।७४ । इति
गतिसंज्ञा । मोदस्व हर्ष जनय । वरमन्दिरे श्रेष्ठगृहे स्थिता ॥