2023-02-15 17:22:04 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः - ११३
अध्यास्ते ऽन्तर्-गिरं यस्मात्,
कस् तन् न ज्वैति कारणम् ॥ ८७ ॥
निर्लङ्क इत्यादि – यस्मात्कारणात् धनानां स्वामी धनदः । अन्तर्गिरम-
ध्यास्ते अध्यासितवान् । गिरेः कैलासस्यान्तर्मध्ये । विभक्त्यर्थेऽव्ययीभावः ।
'६८३ । गिरेश्च सेनकस्य ।५।४।११२।' इति टच् । '५४२ । अधि-शीङ्-स्थाऽऽसा-
म्—।१।४।४६।' इति कर्मसंज्ञा । तेन '६५८ । तृतीयासप्तम्योर्बहुलम् ।२।४।४।
इत्यम्भावो न भवति । १६५७ । नाव्ययीभावात् । २।४।८३।' इत्यमेव भवति ।
तत्कारणं मम पराक्रमं मां वा को नावैति न जानाति । कीदृशः । निर्लङ्कः लङ्का-
तो निष्क्रान्तः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति सः । ८६५५ । एकविभक्ति
च–।१।२।४४।' इत्युपसर्जनसंज्ञायां स्वत्वम् । हृतपुष्पकः हृतं आच्छिन्नं पुष्प-
काख्यं विमानं यस्य । अत एव विमदोऽपेतदर्पः । लङ्का पुष्पकं च धनदस्यासीत्
तदाच्छित्वा अनेन गृहीतमिति ॥
२७१ - भिन्न नौक इव ध्यायन्
मत्- तो बिभ्यद् यमः स्वयम् ॥
कृष्णि-मानं दधानेन
मुखेना॑ ऽऽस्ते निरु॒द्यतिः ॥ ८८ ॥
भिन्नेत्यादि – स्वयं साक्षान्मत्तो विभ्यत् त्रस्यन् यमो वैलक्षण्यात् सुखेन
कृष्णिमानं कृष्णवर्णत्वम् । '१७८७ । वर्णदृढादिभ्यः व्यञ्च । ५।१।१२३ ।' इति चका-
रादिमानचू । दुधानेन धारयता । इत्थम्भूते तृतीया । निरुद्यतिः निरुद्यमः आस्ते ।
उत्पूर्वाद्यमेः '३२७२ । स्त्रियां क्तिन् ।३।३।९४ । अनुनासिकलोपः । कीदृशः ।
ध्यायन् चिन्तयन् । 'किं मामापतितं यदहमनेन हृतसर्वस्वः' इति । भिन्ननौक
इव विपन्न पोतवाणगिव । '८८९। उरःप्रभृतिभ्यः ।५।४।१५१ ॥
एवं स्वपौरुपं प्रदर्थ स्वीकर्तुमाह -
२७२ – समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरी ॥
रत्न - पारायणं नाम्ना लङ्केति मम मैथिलि ! ॥ ८९ ॥
समुद्रेत्यादि - हे मैथिलि ! लङ्केति नाम्ना मम पुरी । कीदृशी । समुद्र
एवोपत्यका आसन्ना भूर्यस्याः सा समुद्रोपत्यका । समुद्रस्य पर्वतोपत्यकात्वात् ।
समुद्रौपत्यकेति समासे साधुत्वं न भवति । यतः संज्ञाधिकारात् पर्वतस्यासचे
अधिरूढे उपाधिभ्यां त्यकन्प्रत्ययान्तयोरुपत्यकाधित्यकाशब्दयोः साधुत्वमुक्तम् ।
प्रतिषेधे त्यकन उपसंख्यानम्' इति '४६३ । प्रत्ययस्थात् -।७।३।४४।' इतीकारो न
भवति । हैमी हेमविकारा । ११५३२। प्राणिरजतादिभ्योऽञ् ।४।३।१५४।' पर्व-
ताधित्यका । त्रिकूटपर्वतस्योपरि स्थिता । रखपारायणं यत्र रत्नानां पारमवसा-
नमयन्ते बुध्यन्ते तत्परीक्षकाः । सर्वरत्वस्थानमित्यर्थः ॥