This page has not been fully proofread.

भट्टि काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे पञ्चमो वर्गः,
 
संदर्शितता॒ऽऽन्तरा॒कूतस्
ताम॑वादीद् दशाननः ॥ ८३ ॥
 

 
अधेत्यादि – अथैवमुक्तो जानक्या दशाननस्तामवादीत् उक्तवान् । आय-
स्यन् क्रोधाविष्टत्वात् शरीरं खेदयन् । '२२८७ । यसुँ प्रयत्ने' इति देवादिकः पर-
स्मैपदी । क्रोधादेव कषायाक्षः । १८५२ । बहुव्रीहौ सक्थ्यक्ष्णोः– ।५।४।१३।
इति षच् । स्यनैः सृतैः स्वेदकणैरुल्वणः उद्भटः व्याप्त इत्यर्थः । स्सन्देर्निष्टायां
रूपम् । संदर्शितमान्तरमन्तर्गतमाकूतमभिप्रायो येन स एवंविधः ॥
२६७ - 'कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम् ॥
 
११२
 
को नग्न मुषित प्रख्यं बहु मन्येत राघवम् ॥ ८४ ॥
कृत इत्यादि – कनिष्ठाया अपत्यं ज्येष्ठाया अपत्यमिति ११२३ । स्त्रीभ्यो
ढक् ।४।१।१२०।' । '११३१॥ कल्याण्यादीनामिनङ् ।४।१।१२६।' तयोः कल्या-
ण्यादिषु पठितत्वात् । कनिष्ठासुतस्य भरतस्य कृते निमित्ते । ज्येष्टायाः सुतः निरु-
पयोगितया विवासितः विसर्जितः । विपूर्वस्य वसतेर्हेतुमण्ण्यन्तस्य निष्ठायां
रूपम् । तं नम्नमुपितप्रख्यं यथा कश्चिन्मुषितो नमो भवति तद्वद् भूतम् ।
'७२६। पूर्वकाल – ।२।१॥४९॥ इति सः । तयोः पूर्वापरकालत्वात् । राजदन्तादि-
त्वात्परनिपातः । ईदृशं राघवं को बहु मन्येत लाघेत । नैवेत्यर्थः ॥
 
-
 
२६८ - राक्षसान् बटु-यज्ञेषु पिण्डी-शूरान् निरस्तवान् ॥

यद्यसौ कूप- माण्डूकि ! तवैतावति कः स्मयः ॥ ८५ ॥
 
यद्यसौ राक्षसान्
 
--
 
1
 
राक्षसानित्यादि — अध्वरेष्विष्टिनामि त्यस्योत्तरमाह
पिण्डीशूरान् पिण्ड्यामेव शूरानू भोजने एव शूरान् । '७२५३ पात्रेसमिताद-
यश्च ।२।१॥४८।' इति सः । बटुयज्ञेषु कुब्राह्मणयज्ञेषु । निरस्तवान् तिरस्कृतवान् ।
हे कूपमाण्डूकि कूपे माण्डूकीव । पूर्ववत् सः । '११२२ । ढक् च मण्डू-
कात् ॥४।१॥१९॥ इति चकारादण् वापत्ये । एतावति स्वल्पे वस्तुनि तव कः
स्मयः । नैव युज्यते ॥
 
मत्पराक्रमे तु युक्तः तत्रापि मम न युक्तं वक्तुमित्याह-
२६९ मत् पराक्रम-संक्षिप्त राज्य-भोग-परिच्छदः ॥
 
-
 
युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः ॥ ८६ ॥
मत्परेत्यादि – राज्यभोगादयः परिच्छदो हस्त्यश्वादिः स मत्पराक्रमे
संक्षिप्तो ऽपहृतो यस्य हरेरिन्द्रस्य स यथा दरिद्वाति निरर्थको भवति तन्ममैव
किं वक्तुं युक्तमात्मगुणवादस्य लज्जाकरत्वात् । दरिद्वातेरादादिकत्वाच्छपो लुक् ॥
२७० - निर्- लङ्को वि-मदः स्वामी
 
धनानां हृत पुष्पकः ॥