This page has not been fully proofread.

तथा लक्ष्य-रूपे कथान के राम-प्रवासो नाम पञ्चमः सर्गः-- १११
 
मुख्येन आगतवान् । लुङ् । चलेरङि रूपम् । पितुर्नियोगात् । नायोग्यत्वात् ।
स मे भर्तेति योज्यम् ॥
 
२६३ - पतत्रि क्रोष्टु - जुष्टानि रक्षांसि भय- दे वने ॥
 
यस्य
 
बाण निकृत्तानि श्रेणी-भूतानि शेरते ॥ ८० ॥
 
*
 
पतत्रीत्यादि – यस्य बाणैर्निकृत्तानि छिन्नानि रक्षांसि भयदे वने दीर्घनि-
गया शेरते स मम भर्तेति योज्यम् । शेरत इति '२४४२॥ शीडो रुट् १७१११६।'
कीदृशानि । अश्रेणयः श्रेणयो भूतानि । '७६२। ऊर्यादिचिवडाचश्च ।३।४॥६॥
इति ध्यन्तानां '७६१ । कुगतिप्रादयः ।२।२।१८।' इति सः । '२१२० । च्वौ च
।७।४।२६।' इति दीर्घः । च्व्यर्थानां तु '७३८। श्रेण्यादयः कृतादिभिः ।२।१।
५९३' इत्ययं चिपयः । पतत्रिभिः क्रोष्टुभिश्च जुष्टानि परिवृतानि ॥
२६४ - दीव्यमानं शितान् वाणान॑स्य॒मानं महा-गदाः ॥
 
निघ्नानं शात्रवान् रामं कथं त्वं नोऽवगच्छसि ॥ ८१ ॥
 
दीव्येत्यादि — शितांस्तीक्ष्णान् बाणान् । दीव्यमानं क्षेप्तुं शक्तं तच्छीलं वा ।
अनेकार्थत्वाद्धातूनां दिवेः '३१०९ । ताच्छील्य- वयोवचन- ।३।२।१२९१ ।' इत्या-
दिना शानच् । '२०५ । दिवादिभ्यः इयन् ।३।१।६९। महागदाः अस्यमानं
क्षेप्तुं शक्तं तच्छीलं वा । पूर्ववच्छानच् । शान्रवान् शत्रून् । प्रज्ञादित्वादण् ।
निम्नानं हन्तुं शकं तच्छीलं वा । पूर्ववत् प्रत्ययः । हन्ते '२६६३। गमहन-
।६।४।१८।' इत्युपधालोपः । '३५८। हो हन्तेः ।७।३।१४।' इति कुध्वम् । एवं-
विधं रामं कथं नावगच्छसि । तेन कर्मणा सर्वलोकविदितत्वादिति भावः ॥
 
२६५ - भ्रातरि न्यस्य यातो मां मृगाविन् मृगयाम॑सौ, ॥
 
-
 
एषितुं प्रेषितो यातो मया तस्या॑ ऽनु- जो वनम् ॥८२ ॥
 
-
 
भ्रातरीत्यादि – यद्येवं क्वासावित्याह । असौ रामो मां भ्रातरि न्यस्य अर्प-
यित्वा मृगयामाखेटकं यातः । मृगेः स्वार्थिको णिच् । अन्तत्वाच्च गुणो न
भवति । तदन्तात् '३२७७। कृञः श च ।३।३।१००।' इत्यधिकृत्य 'परिचर्या-परि-
सर्या-मृगयाटाट्यानामुपसंख्यानम्' इति भावे शप्रत्ययः । यक् । अल्लोपाभा-
वश्च । टापू । मृगान्विध्यतीति मृगावित् । क्वासौ, भ्रातेति चेदाह । तस्यानुजः
कनिष्ठो मया प्रेषितः सन् यातो वनम् । अनु पश्चाज्जायत इति । '३०११॥
अन्येष्वपि दृश्यते ।३।२।१०१ ।' इति डः । अनौ कर्मयुक्तमकर्मण्यपि भवति ।
किमर्थं । एषितुम् । तमेव ज्ञातुम् । '१२०२ । इर्षं गतौ' इत्यस्य रूपम् । ज्ञाना-
र्थत्वात् । प्रेषित इति तस्यैव रूपम् ॥
 
२६६ - अर्था ssयस्यन् कषायाऽक्षः
स्यन्न स्वेद - कल्वणः ॥