This page has not been fully proofread.

११० भट्ट- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पचमो वर्गः,
 
शेषत्वेन विवक्षितत्वात् पष्ठी । ओजायमाना ओज इकाचरन्ती '२६६५५१ कर्तुः
क्य सलोपश्च ।३।१।११।' 'ओजसोऽप्सरसो नित्यम्' इति वचनात् : मां
माभिभूदित्यतितेजस्विनी भवन्तीत्यर्थः । किमुवाच वचो वक्ष्यमाणम् । सादरा
सती । परिव्राजक इति । गद्गदमनभिव्यक्तमसंस्कृतत्वात् ॥
 
कलापकम् ( ४ ) -
२६० - महा - कुलीन ऐक्ष्वाके वंशे दाशरथिर् मम ॥
 
पितुः प्रियं-करो भर्ता क्षेमं कारस् तपस्विनाम् ॥७७
महेत्यादि –– यदुनं तेन कं रहस्युपतिष्ठस इति अस्य प्रतिवचनं मम भर्ता
महाकुलीनः महाकुलस्यापत्यमिति । '११६४ । महाकुलादञ्- खजौ ।४।११४१॥
इति खन् । किमादित्यवंशसंभवः, किं सोमवंशसंभवो वा महाकुलस्यापत्य-
मित्याह । ऐक्ष्वाके वंशे इक्ष्वाकूणामयमैक्ष्वाकः ।११४५ । दाण्डिनायन-१६।४।-
१७४।' इत्यादिना टिलोपनिपातनम् । अन्ये तत्र सन्तीत्याह । दाशरथिः दशरथ-
स्थापत्यं यः स मम भर्ता । महाकुलीनः । कीदृशः । पितुः प्रियंकरः अनुकूल-
कारी । तपस्विनां च क्षेमंकारः । १२९६१ । क्षेमप्रियमद्वेऽण् च ।३॥२।४। इति
चकारात् खच् ॥
 
२६१ - निहन्ता वैर काराणां सतां वहु-करः सदा ॥
 
-
 
पारश्वधिक रामस्य शक्तेरन्त-करो रणे ॥ ७८ ॥
निहन्तेत्यादि — वैरकाराणां शत्रूणाम् । वैरपूर्वात् कुञ: '२९३७ । न शब्द-
लोक-।३।२।२३।' इत्यादिना टे प्रतिषिद्धे अणेव भवति । निहन्तेति तृजन्तस्य
प्रयोगः । तत्र कर्मणि षष्टी । सतां धर्मे स्थितानां बहुकरः बहुकार्यं करोतीति ।
८२९३५ । दिवा- विभा । ३।२।२१।' इति ठः । स्त्रीविवक्षायां तु 'किं यत्तद्रहुपु - '
इति करोतेरच् । आङ्परयो ः 'खनिगृभ्यां हिच्च' इत्यौणादिकः कुः परशुशब्दः ।
तत्पर्याय एवाव्युत्पन्नः परश्वधशब्दः । स प्रहरणं यस्य '१६०८ । परश्वधाटूच्च
।४।४।५८ । तस्य परशुरामस्य सम्बन्धिन्याः शक्तेः सामर्थ्यस्यान्तकरो विनाश-
यिता । अन्तं करोतीति पूर्ववः । रणे संग्रामे तत्र भवः ॥
२६२–अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदा ॥
 
पितुर् नियोगाद् राज-त्वं हित्वा योऽभ्यागमद् वनम् ॥
अध्वरेष्वित्यादि–इष्टमेभिरिति इष्टिनो यज्वानः । १८८८ । इष्टादिभ्यश्च
१५/२१८८।' इतीनिः । किमिष्टवतः । अध्वरान् कर्माणि तत्र 'कस्येन्विषयस्य - '
इति कर्मणि सप्तमी । अध्वरेविष्टिनामिति कर्मणि षष्ठी कृधोगे। पाता रक्षि
ता । पूर्वी कर्मसु सर्वदा । पृणोतेर्निष्ठायां '२४९४ । उदोश्यपूर्वस्य ।७।१।
१०२।' इत्युत्वम् । '३०४० । न ध्याख्या ।८।२।५७१' इत्यादिना निष्ठानत्वप्र-
खिषेधः । पूर्तमनेनेति पूर्ववदितिः । किं पूर्तमिति सर्वदा श्राद्धादिकर्मणि ।
पूर्ववतमीस राजवं राज्यम् । हिव्वा त्यक्त्वा । वनमभ्यागमत् । अभि-