2023-02-15 17:22:02 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः- १०९
२५६ - वल्गूयन्तीं विलोक्य त्वां
स्त्री न मन्तूयतीह का, ॥
कान्ति नोऽभिमनायेत
को वा स्थाणु-समो ऽपि ते ॥ ७३ ॥
वल्ग्वित्यादि - त्वां वल्गूयन्तीं शोभमानां विलोक्य न मन्त्यति स्त्रीह का ।
इह जगति का स्त्री न मन्त्येत् कुप्येत् । सर्वदा कुप्यत्येव ईर्ष्यायुक्तत्वात्
स्त्रीणाम् । असम्भावने लिङ् । वल्गु-मन्तुशब्दाभ्यां कण्ड्डादित्वाद्यक् । को वा
को नाम स्थाणुसमोऽपि काष्ठतुल्योऽपि गुणदोषानभिज्ञत्वात्ते तव कान्ति
विलोक्य नाभिमनायेत पूर्वमदृष्टत्वादनभिमनाः सन् अभिमनाः सचेता न
भवेत् । पूर्ववल्लिङ् । अभिमनसो भृशादित्वात्क्यङ् सलोपश्च । महादेवतुल्यो
वा आस्तामन्यः सोऽपि तावदभिमनायेत् ॥
5
▬▬▬▬
२५७ - दुःखायते जनः सर्वः, स एवैकः सुखायते ॥
यस्यौत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके ॥ ७४ ॥
दुःखेत्यादि – स एवैको जनः सुखायते सुखं वेदयते । यस्यान्तिके समीपे
न त्वं प्रतीपायसे न प्रतिकूलवर्तिनी भवसि । उत्सुकायमाना सती । यस्य
पुनरन्तिके उत्सुकायमाना प्रतीपायसे स सर्वो जनः दुःखायते दुःखं वेदयते ।
सुख-दुःखशव्दाभ्यां '२६७४ । सुखादिभ्यः कर्तृवेदनायाम् ।३।१।१८।' इति
क्यङ् । उत्सुक प्रतीपशब्दाभ्यां भृशादित्वात् ॥
२५८ - कः पण्डितायमानस् त्वा-
मा॑दाया॑ऽऽमिष - सन्निभाम् ॥
त्रस्यन् वैरायमाणेभ्यः
शून्यमन्ववसद् वनम्.' ॥ ७५ ॥
क इत्यादि - पण्डितायमानः अपण्डितः कथमपि पण्डितो भवन् । भृशा-
दित्वात् क्यङ् । त्वामामिषसन्निभां सर्वजनप्रार्थनीयत्वात् । आदाय गृहीत्वा
क्रः शून्यं वनमन्ववसत् । शून्ये वने अवसदित्यर्थः । '५४४ । उपान्वध्याङ्वसः
।१।४।४८॥ इति कर्मसंज्ञा । कीदृशः । त्रस्यन् बिभ्यत् । वैरायमाणेभ्यः वैरं
कुर्वाणेभ्यः । '२६७३। शब्द - वैर ।३।१।१७।' इत्यादिना क्यङ् । ८५८८। भीत्रा-
र्थानाम्- ।१।४॥२५।' इत्यपादानसंज्ञा ॥
-
२५९ - ओजायमाना तस्यां ऽर्ध्य प्रणीय जनकाऽऽत्मजा ॥
उवाच दश मूर्धानं॑ सा॒ाऽऽदरा गद्गदं वचः ॥ ७६ ॥
ओजेत्यादि – एवमुक्तवति रावणे जनकसुता दशमूर्धानमुवाच । दश
मूर्धान: शिरांसि यस्य तस्यार्ध्य प्रणीय दुत्वा अतिथिरयमिति । सम्प्रदानस्य
YT- F