This page has not been fully proofread.

१०८ भट्ट- काव्ये -- प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पचनो वर्गः,
२५३ - आपीत- मधुका भृङ्गैः सुदिवैर्वाऽरविन्दिनी ॥
सत्-परिमल - लक्ष्मीका नो ऽ- पुंस्काऽसीति मे मतिः.
 
आपीतेत्यादि – परि सर्वतो मार्जनमिति परिमलः । कलत्रपक्षैत्यधिकृत्य
मृजेष्टिलोपश्चेति कलप्रत्यय औणादिकः । इह सुरतोपभोगविमर्दः परिमलोऽभि-
प्रेतः । तस्य लक्ष्मीः तत्कृतत्वात् । सती विद्यमाना परिमलशोभा यस्याः । ८८९
उरःप्रभृतिभ्यः कप् । ५।४।१५१॥ सा स्वमपुंस्का अविद्यमानभर्तृका नासीति मे
मतिः । पूर्ववस्कप् । किमिव सुदिवेवारविन्दिनी पद्मिनी । शोभनं दिवा नीहा-
राद्यभावाद्दिवा दिवसं यस्याः । १८६० । सुप्रात ।५।४।१२०।' इत्यादिना अच् ।
आपीतमधुका भृङ्गैः आपीतं मधु यस्याः । १८९१ । शेषाद्विभाषा ।५/४/१५४
इति कप् । यथेयं सत्परिमललक्ष्मीका तथा त्वमपीति ॥
 
२५४ - मिथ्यैव श्रीः श्रियं मन्या, श्रीमन् मन्यो मृषा हरिः ॥
साक्षात्कृत्या॑ऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः ७१
 
मिथ्यैवेत्यादि - श्रियः श्रियं रूपसम्पदं हरन्तीममिभवन्तीं त्वां साक्षा-
स्कृत्य प्रत्यक्षीकृत्य । विभाषा कृजीत्यनुवर्तमाने '७७५१ साक्षात्प्रभृतीनि च 131-
४।७४।' इति गतिसंज्ञा । गतिसमासे ल्यबादेशः । अहमभिमन्ये किं मिथ्या श्रीः
श्रियंमन्या अहमेव श्रीर्नान्येति मन्यमाना श्रीर्मिथ्या नैव श्रीः किन्तु त्वमेवेति ।
८२९९३ । आत्ममाने खश । ३।२।८३ ।' । '२५०५ । दिवादिभ्यः श्यन् । ३।१।६९ । '
। '२९९४ । इच एकाचोऽम्प्रत्ययवच्च । ६।३।६८।' इत्यम्भावः । तस्यामः प्रत्ययस्वा-
'न्मलोपाभावः । १९० । न विभक्तौ तुस्माः ।१।३।४।' इति वचनात् । अचीतीय-
ङादेशः । क्विबन्ता धातुत्वं न जहतीति क्विब्वचीत्यादिना श्रयतेरौणादिकः विप् ।
हरिश्चात्मानं श्रीमन्तं मन्यमानो मृपा न श्रीमानित्यहमभिमन्ये ॥
 
-
 
२५५ - नौदकण्ठिप्यता॑ ऽत्यर्थं, त्वामैक्षिष्यत चेत् स्मरः ॥
खेलायन्ननिशं ना॑पि सजूः कृत्य रतिं वसेत् ॥७२॥
 
"
 
नोदेत्यादि—– स्मरभार्या रतिः सापि रूपेण निकृष्टेति दर्शयति । चेत् यदि
स्मरः त्वामैक्षिय्यत दृष्टवानभविष्यत् तदा अत्यर्थं नोदकण्ठिप्यत रतिं प्रति भृश-
मुत्कण्ठितो नाभविष्यत् । '६५२ । ईक्ष दर्शने' इति, '२७३ । कठि शोके' इति
भौवादिकात् क्रियातिपत्तौ ऌङ् । नापि रर्ति स्वभार्या सजूः कृत्य सहायीकृत्य
वसेत्, अपि तु परित्यजेत् । अत्र क्रियातिपत्तिर्न विवक्षिता किन्तु हेतुहेतुमझा-
वः । नापि रतिं सजूःकृत्य वसेत् यदि त्वामीक्षेतेति हेतुपदमभ्यूह्य हेतुमद्भाव-
दर्शनात् । ऊर्यादिषु 'सजूः सहार्थः' इति वचनात् गतिसंज्ञा । खेलायन् अनिशं
क्रीड़न सर्वदा । खेलाशब्दात् कण्ड्वादित्वात् यक् ॥