2023-02-15 17:22:02 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य - रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः-
२५० - हृदयं - गम-मूर्तिस् त्वं सुभगं भावुकं वनम् ॥
कुर्वाणा भीमम॑प्यैतद् वदा॑ ऽभ्यैः केन हेतुना ॥६७ ॥
हृदयमित्यादि – केन हेतुना इदं वनमभ्यैः अभिगतासि वद कथय । अभि-
पूर्वादिणो लङ् । मध्यमपुरुषैकवचनम् । ८२२५४ । आडजादीनाम् ॥६॥४॥७२॥
'२६९। आटश्च ।६।१।९० ।' इति वृद्धिः । हृदयं गच्छति या मूर्तिः शरीरमत्य-
न्तसौन्दर्यात् । '२९६४ । गमत्र । ३ । २।४७ ।' इति खच् । सा एवंविधा सूर्तिर्य-
स्याः सा त्वं भीममप्येतद्वनं सुभगम्भावुकं सर्वस्यैवाप्रियं प्रियं कुर्वाणा । असु-
भगं भूत्वा सुभगं भवतीति '२९७४ । कर्तरि भुवः । ३।२।५७ ।' इति खुकञ् ॥
२५१ - सुकृतं प्रिय-कारी त्वं कं हरस्यु॑पतिष्ठसे, }}
पुण्य-कृच् चाटु-कारस् ते किङ्करः सुरतेषु कः ॥ ६८॥
सुकृतमित्यादि – सुकृतं पुण्यकारिणं शोभनं कृतवानिति ८ २९९९ / सुक-
र्म-पाप-।३।११८८।' इत्यादिना किप् । कं रहसि विजने त्वमुपतिष्ठसे उपश्लि-
प्यसि । संगतकरणे तङ् । प्रियकारी अनुकूलवर्तिनी सती । प्रियमनुकूलं करो-
तीति ' २९६१ । क्षेम-प्रिय-मद्वेऽण् च ।३।२।४४।' इति अण् '४७० । टिड्ढाणज् - ४॥
१।१५।' इत्यादिना ङीप् । पुण्यकृत् कृतपुण्यः । तस्य पूर्ववत् किप् । चाटुकारः
प्रियवाक्यकरः । '२९३७ । न शब्दश्लोक - ।३।२।२३।' इत्यादिना टे प्रतिषिद्धे-
Sणेव भवति । ईशस्ते किङ्करः दासः । '२९३५ । दिवा- विभा - ।३।२।२१॥ इति
ट: । किंयत्तद्वहुपु कृञोऽज्विधानमिति तत्स्त्रीविषये द्रष्टव्यम् । सुरतेषु शोभन-
रतेपु । '३०९० । नपुंसके भावे क्तः ।३।३।११४।' । '२४२८ । अनुदात्तो- ६॥४॥
३७।' इत्यादिनानुनासिकलोपः । अनेनोभयरुचिराख्याता ॥
-
१०७
२५२ - परि पर्युदधे रूपमा॑ द्यु-लोकाच् च दुर्लभम् ॥
भावकं दृष्टवत्स्वे॑तद॑स्मास्व॑धि सु जीवितम् ॥ ६९ ॥
परीत्यादि – एतद्रूपं भावकं भवत्या इदमिति '१३१९॥ भवतष्ठक्छसौ
।४।२।११४।' इति ठक्छसौ । 'ठक्छसोचोपसंख्यानम्' इति पुंवद्भावः । १२-
२१॥ इसुसुक्तान्तात्कः ।७।३।५१॥ दुर्लभं परिपर्युदधेः १५९६ । अपपरी वर्जने ।
।१।४।८८ । इति कर्मप्रवचनीय संज्ञायां द्वितीयायां प्राप्तायां '५९८ पञ्चम्यपा-
परिभिः ।२।२।१०।' इति पञ्चमी । '६६६ । अप-परि बहिरञ्चवः पञ्चम्या ।२।१-
।१२।' इति विभाषासमासश्च । असमासपक्षे '२१४१ । पर्व ।८॥ इति
द्विर्षचनम् । उदधिं वर्जयित्वा चतुरुदधिमेखलायां भुवि दुर्लभमायुलोकाञ्च
स्वर्गलोकान्तं च यावत् दुर्लभम् । अत्रापि पूर्ववत्पञ्चमी । तादृशं दृष्टवत्स्वस्मासु
अधि सुजीवितमस्मद्विषये आधिक्येन सुजीवितम् । अहो वा सुजीवितमिति
अहोशब्दार्थे अधिशब्दो वर्तते ॥