This page has not been fully proofread.

१०६ भट्टि काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण हो पन्चमो वर्गः,
 
२६४३ नुगत
 
क्रमेः '२६३४ । नित्यं कौटिल्ये गतौ ।३॥२३।' इति य
-।७।४।८५।' इत्यभ्यासस्य नुक् । '३२७९ । अः प्रत्ययात् ।३।२।१०२।' इत्याकारः
। '२३०८। अतो लोपः ।६।४।४८।' । '२६३१॥ यस्य हलः ।६।४।४९॥' टाप् । सा
यस्यास्ति चंक्रमावान् । कुटिलगतिमानित्यर्थः । समागत्य ढौकित्वा । सीतामूचे ।
किमित्याह - सुखाभवेति अनुकूला भवेत्यर्थः । यदहं प्रार्थये तत्र प्रतिकूला न भवेति
भावः । '२१३४। सुखप्रियादानुलोम्ये ।५।४।६३ ।' इति कृम्वस्तियोगे डाधू ॥
 
युग्मम्-
२४८ - सायं तनीं तिथि-प्रण्यः पङ्कजानां दिवा-तनीम् ॥
कान्ति कान्त्या सदा-तन्या हेपयन्ती शुचि-स्मिता.
 
सायमित्यादि का त्वमिति वक्ष्यमाणेन संबन्धः । सायं दिनावसानं तत्र
भवां कान्तिम् । यदा घोऽन्तकर्मणीत्येतस्मात् घञ्प्रत्ययान्तः तदा '१३९१॥
सायंचिरं~।४।३।२१।' इति ट्युट्युलौ नुट् च मकारान्तत्वं च निपात्यते । यदा
सायंशब्दो मकारान्तः तदाप्यव्ययत्वादेव प्रत्ययागमौ स्याताम् । कस्येत्यपेक्षायां
तिथिप्रण्यः चन्द्रमसः पञ्चदश कलाः तासां वृद्धिहासाभ्यां पञ्चदश तिथीः
प्रणयति प्रवर्तयति । '२९७५ । सत्सू - द्विप - १३/२/६१॥' इति विप् । '२२८७ । उप-
सर्गादसमासे - 1८।४।१४ ।' इति णत्वम् । ८२७२ । एरनेकाच:-।६।४।८२॥ इति
यणादेशः । पङ्कजानां च क्रान्ति कीदृशीम् । दिवातनीं दिवाभवाम् । कान्त्या त्वदी-
यया सदातन्या सदाभवया हेपयन्ती लजयन्ती । दिवातन्याः सायन्तन्याच
सदाभवत्वात् । जितेः '२५७० । अर्ति । ७।२।३६ । इत्यादिना णौ पु । शुचि-
स्मिता शुभ्रहासा ॥
 
२४९ का त्वमेकाकिनी भीरु ! निरन्वय-जने वने, ॥
 
क्षुध्यन्तो ऽप्यंघसन् व्यालास् त्वार्म-पालां कथं न वा.
 
का त्वमित्यादि-
- का त्वं देवी मानुषी राक्षसी वेति । एकाकिनी अस-
हाया । १९९८ । एकादाकिनिञ्चासहाये ।५।३।५२।' इति आकिनिच् । भीरु
इत्यामन्त्रणं भयप्रकृतित्वात् स्त्रीणाम् । निरन्वया निरनुगमा जना यस्मिन्वने
यत्र न कथंचिन्मनुष्याणां सम्भवः । क्षुध्यन्तोऽपि बुभुक्षमाणा अपि । दिवादि-
त्वात् श्यन् । व्याला हिंसा व्याघ्रादयः कथं वा त्वां नाघसन् न भक्षितवन्तः ।
अदे: '२४२७ । लुङ्सनोस्ट ।२।४।३७॥ द्वित्वात् चलेरङ् । क्षुध्यन्तो नाव-
सन्निति पाठान्तरम् । तत्र कथं न वा अपरिचितानेवाघसन् इति योज्यम् ।
अपालां सतीं अविद्यमानः पालो यस्या इति । '१७२६ । पाल रक्षणे' इति चौरा-
दिकः । पालयतीति पालः । पचाद्यच् । यदा प्रयोजकविवक्षा तदा पातेलुगागमो
णौ वक्तव्य इति लुक् । ततः पचाद्यच् ॥