This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः -
 
अस्यास्तीति शिखी परिव्राजकः । बाह्लादित्वादिनिः । जंजपूकः पापाशयत्वात्
गर्हितं जपतीति । '२६३५॥ लुप-सद - ।३॥२४।' इति यङ् । '२६३८। जप-जभ
-१७१४।८६।' इत्यभ्यासस्य नुक् । '३१४६। यज- जप-दशां यङः । ३।२।१६६॥
इत्यूकः । अक्षमालावान् अक्षसूत्रयुक्तः । संसर्गे मतुप् । धारयतीति धारयः ।
' २९०० । अनुपसर्गात् - । ३॥।१३८ ।' इति शः । कस्य मृदलावुनः । 'नजि लम्बे-
र्नलोपश्च' इत्यौणादिक ऊकारे प्रत्यये अलाबूः । तस्य विकारः फलमिति १५१९॥
ओरञ् ।४।३।१३९।' । तस्य फले लुक् । नपुंसकहस्त्रत्वम् । मृत्पूर्णमलाबु इति
मध्यमपदलोपी सः । कृत्प्रयोगे कर्मणि । '३२० । इकोऽचि विभक्तौ ॥७॥१॥
७३।' इति नुम् ॥
 
२४५ - कमण्डलु कपालेन शिरसा च मृजा-वता ॥
 
संवत्र्य लाक्षिके वस्त्रे मात्राः संभाण्ड्य दण्ड-वान् ६२
कमेत्यादि – कमण्डलुना कपालेन च '९१०१ जातिप्राणिनाम् ।२॥४॥६॥
इति द्वन्द्वैकवद्भावः । मृजावता निर्मलेन शिरसा च उपलक्षितः । इत्थम्भूते
तृतीया । संवरूय परिधाय । 'वस्त्रात्समाच्छादने' इति '२६७७ । मुण्डमिश्र -
-।३।१।२१।' इत्यादिना णिच् । लाक्षिके वस्त्रे । लाक्षया रक्ते । '१२०३। लाक्षा-
रोचनात्- ।४।२।२।' इत्यादिना ठकू । मात्रा: कमण्डल्वादिकं सम्भाण्ड्य समा-
चित्य राशीकृत्येत्यर्थः । 'भाण्डात् समाचयने' इति '२६७६ । पुच्छ-भाण्ड - 1३।
१।२०।' इत्यादिना णिङ् । दण्डवान् गृहीतत्रिदण्डः । संसर्गे मतुप् ॥
 
२४६ - अधीयन्नात्म-विद् विद्यां धारयन् मस्करि-व्रतम् ॥
 
-
 
वदन् बङ्गुलि स्फोटं भ्रू-क्षेपं च विलोकयन् ॥ ६३॥
 
अधीत्यादि — मा कुरुत कर्माणि शान्तिर्वः श्रेयसीत्येवं घोषयन्ति ये ते
मस्करिणः परिव्राजकाः । तेषां व्रतमकृच्छ्रमसौ धारयन् । १०६८ मस्कर-म-
स्करिणौ—।६।१।१५४।' इति परिव्राजके सुद । आत्मविदां योगिनाम् । विद्यामु-
पनिषदमधीयन् जपन् '३११० । इङ्-धार्योः । ३।२।१३०।' इतीङो धारेश्च अकृ-
च्छ्रवति कर्तरि शतृप्रत्ययः । अन्तरा बहु प्रभूतं वदन् । अङ्गुलिस्फोटं पुनः पुनः
स्फोटिकान्दवा भ्रूक्षेपं च विलोकयन् भ्रुवावुत्क्षिप्योत्क्षिप्य विलोकयन् । उभ-
यत्रापि '३३७६। स्वाङ्गेऽध्रुवे ।३।४।५४ । इति णमुल ॥
२४७ – संदिदर्शयिषुः साम निजुहूषुः क्षपाट ताम् ॥
 
चंक्रमा -वान् समागत्य सीतार्मूचे - 'सुखाभव.' ॥ ६४ ॥
संदीत्यादि — इह भयं मा भूदिति साम सान्त्वं संदिदर्शयिषुः संदर्शयि
तुमिच्छु: । वदन् बढङ्गुलिस्फोटमिति योज्यम् । दृशेर्ण्यन्तसन्नन्तत्वे रूपम् ।
पा राक्षसत्वं निजुहूपुर्निहोतुमिच्छुः । धारयन्मस्करिव्रतमिति योज्यम् ॥
होतेः '२६१४ । अज्झनगमां सनि ।६।४।१६।' इति दीर्घः । कुटिलं क्रमणं चंक्रमा ।