This page has not been fully proofread.

१०४ भट्टि- काव्ये प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पयमो वर्गः,
 
ता '२२२०। स्मोत्तरे लङ् च ।३।३।१७६।' इति चकारात्लुङ् । सिचि वृद्धिः ।
त्वया अद्यैव कृतार्थ: पूर्णमनोरथः पतिक्ष्यते । शेः कर्मणि लृट् ॥
 
२४२ - 'यायास् त्वमिति कामो मे, गन्तुर्मुत्सहसे न च ॥
 
इच्छुः कामयितुं त्वं माम्', इत्यसौ जगदे तया. ५९
याया इत्यादि – तदन्वेषणाय यायास्त्वमिति कामोऽभिलापः । २८१०।
कामप्रवेदनेsकञ्चिति ।३।३।१५३ । इत्यकञ्चित्युपपदे लिङ् । न च गन्तुमुल्स-
हसे । '३१७७। शक-धृप - १३ । ४॥७५ । इति तुमुन् । तस्मान्नूनं मां कामयितु
मिच्छुः एषणशीलः। '३१७६। समानकर्तृकेषु तुमुन् ।३।३।१५८।' । '३१४९।
विन्दुरिच्छुः ।३।२।१६९ ।' इति निपातनात्साधुः । इत्येवमसौ लक्ष्मणो जगदे
गदितस्तया सीतया ॥
 
२४३ मृषा॒द्यं प्रवदन्तीं तां सत्य-वद्यो रघूत्तमः ॥
 
-
 
निरगात् 'शत्रु-हस्तं त्वं यास्यस 'ति शपन् वशी ॥६०॥
मृषोद्यमित्यादि-मां कामयितुमिच्छुरित्येतन्मृषोद्यम् मृषावादम्। '२८-
६५। राजसूय - ।३।१।११४।' इत्यादिना भावे क्यप् । यजादित्वात् सम्प्रसारणम् ।
प्रवदन्तीं तां सीताम् । रघूत्तमो लक्ष्मणः । शपन् शत्रुहस्तं त्वं यास्यसीति शापं
प्रयच्छन् । भौत्रादिकोऽन्न शपिर्न दैवादिकः । निरगात् निर्गतः । तस्मादुटजादि-
त्यर्थात् । कथं मृषोद्यमित्याह –वशी वशनं वशः इन्द्रियसंयमनम् । 'वशिर-
ण्यो रुपसंख्यानम्' इत्यप् । स यस्यास्ति स वशी जितेन्द्रियः । अत एव सत्यवधः
अवितथवादी । शत्रुहस्तं यास्यसीति सत्यं वदतीति '२८४१॥ कृत्य-ल्युटो बहु-
लम् ।३।३।११३।' इति कर्तरि यत् । '२८५४ । वदः सुपि क्यप् च ।३।३।१०६ । '
इति चकाराद्यत् । भावे वा यतं विधायाच् अर्शआदित्वात् ॥
 
कैलापकम् ( ४ ) -
२४४ गते तस्मिन्, जल-शुचिः
 
शुद्ध-दन् रावणः शिखी ॥
जञ्जपूको ऽक्ष माला-वान्
धारयो मृदुलाबुनः ॥ ६१ ॥
 
-
 
गत इत्यादि — तस्मिन् लक्ष्मणे गते सति रावणः सीतामूच इति वक्ष्यमा
णेन सम्बन्धः । कीदृशः । जलशुचिः स्नात इत्यर्थः । शुद्धदन् निर्मलदशन: शुद्धा
दन्ता यस्य । '८८३ । अग्रान्त ।५।४।१४५।' इत्यादिना दन्तस्य ददादेशः । शिखा
 
१- (१४८) लोकोक्तं टीकनं प्रेक्ष्यम् ।