2023-02-15 17:22:01 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः-
२३९ - 'आप्यान- स्कन्ध-कण्ठांडर्स
रुषितं सहितुं रणे ॥
प्रोर्णुवन्तं दिशो बाणैः
१०३
काकुत्स्थं भीरु ! कः क्षमः ॥ ५६ ॥
आप्येत्यादि – १०३३ । प्यै- वृहौ ।' अस्मादाङ्पूर्वात् '३०१७ । संयो
गादेरातो वातोर्यण्वतः ।८।२।४३ ।' इति निष्टातो नः । ओ प्यायी वृद्धावित्यस्य
वा रूपम् । ८३०१९। ओदितश्च ।८।२।४५॥ इति निष्ठानत्वम् । पीभावस्तु आडू-
पूर्वस्य त्वन्धूसोरिति वचनात् इह न भवति आप्यानस्कन्ध इति । आप्यानं
स्थूलं स्कन्धकण्ठांसं यस्य काकुत्स्थस्य । बाहुशिखरसंसः तस्य पश्चिमो भागः
स्कन्धः तं । रुपितं क्रुद्धम् । रणे संग्रामे सहितुं हे भीरु कातरे ! कः क्षमः शक्तः ॥
अपि तु न कोऽपीत्यर्थः । क्षमेः शक्नोत्यर्थत्वात् तदुपपढ़े '३१७७ । शक-धृष-
।३।४।६५।' इत्यादिना तुमुन् । '२३४० । तीष - सह - ।७।२।४८ ।' इत्यादिना वेद्र ।
फकुत्स्थस्यापत्यं काकुत्स्थः । '१११५॥ शिवादिभ्योऽण् ॥४।१॥११२ । कस्मान्न
क्षम इत्याह ~~-प्रोर्णुवन्तं दिशो बाणैः । यतः सर्वाः दिशः बाणैः छादयन्तम् ।
ऊर्णोतेः शतरि उवङ् । क्षमत इति क्षमः । पचाद्यच् ॥
२४० - देहं विभ्रक्षुर॑
ऽग्नौ मृगः प्राणैर् दिदेविषन् ॥
ज्या घुष्ट- कठिना॒ऽङ्गुष्ठं राममायान् मुमूर्पया ॥५७॥
देहमित्यादि – एष मृगो राममायात् आगतवान् । यातेर्लंङि रूपम् ।
किमर्थं देहं शरीरं अस्त्रानो अस्त्रे अनाविव । विभ्रक्षुः भ्रष्टुमिच्छुः । भ्रस्जेः
'२६१८। सनीवन्तर्ध–।७।२।४९।' इत्यत्रेडभावपक्षे '३८०/ स्को: संयोगाद्यो:-
।८॥२॥२९॥' इत्यनेन सलोपे षत्वकुत्वयोश्च रूपम् । प्राणैर्दिदेविषन् क्रीडितुमि-
च्छन् । '५६२ । दिवः कर्म च ॥१॥४॥४३॥ इति चकारात् करणसंज्ञा । '२६१८।
सनीवन्त –।७।२।४९।' इतीपक्षे रूपम् । ज्यया गुणेन घुष्टौ निघृष्टौ अत एव
कठिनौ अङ्गुष्ठौ सव्यापसव्यकर्षणाद्यस्य । '३५६३ । घुषिरविशब्दने ।७।२।२३।
इति निष्ठायामनिट् । मुमूर्षया मर्तुमिच्छया । मृङ: साने '२४९४ । उदोष्ठ्य-
पूर्वस्य ।७।१।१०२ ।' इत्युत्वम् । '३२७९ । अ प्रत्ययात् ।३।३।१०२।' ॥
२४१ - शत्रून् भीषयमाणं तं रामं विस्मापयेत कः ॥
,
-
मा स्म भैषीस्, त्वया ऽद्यैव कृताऽर्थो द्रक्ष्यते पतिः'
शत्रू नित्यादि – तं रामं शत्रून् भीषयमाणं भीतान् कुर्वाणम् । '२५९५॥
मियो हेतुभये पुक् ।७।३।४॥ २५९४। भी स्म्योर्हेतुये ।१।३।६८ ।' इति
तङ् । विस्मापयेत कः क्षुभितचित्तं कः कुर्यात् । नैवेत्यर्थः । '२५९६ । नित्यं स्मयतेः
।६।१।५७ ।' इति णावात्वम् । '२५७०। अर्तिही-।७।३।३६।' इत्यादिना पुक् ।
निमन्त्रणे नियोगे वा लिङ् । पूर्ववदात्मनेपदम् । तस्मान्मा स्म भैषीः मा भूर्भी-