This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम-प्रवासी नाम पञ्चमः सर्गः-
अज्झनगमां सनि ।६।४।१६।' इति दीर्घः । '२२९४॥ उदोष्ठ्यपूर्वस्य ।७॥१०२।१
इत्युत्वम् । रपरत्वम् । '४३३ । वोरुपधाया दीर्घ इकः ।८।२।७६ । द्विवचनम् ।
'२११। इण्कोः ।८।३।५७१' इति षत्वम् । रेफस्येण्ग्रहणेन ग्रहणाद्दन्त्योध्योऽपि
वकार ओट्यग्रहणेन गृह्यते ॥
 
१०१
 
२३३ -- योग क्षेम-करं कृत्वा सीताया लक्ष्मणं ततः ॥
 

 
मृगस्याऽनुपदी रामो जगाम गज - विक्रमः ॥ ५० ॥
योगेत्यादि- ततो दुचूषानन्तरं रामो जगाम । योगक्षेमौ शरीरस्थितिपा-
लने करोतीति '२९३४। कृञो हेतु ।३।२।२०।' इत्यादिना हेतौ टः । ग्रहणवता
तदन्तविधेरभावात् '२९६१। क्षेमप्रियमद्देऽण् च ।३।२।१४।४॥ इत्यखचौ न
भवतः । सीतायाः स्थितिपालन हेतुभूतं लक्ष्मणं कृत्वा रामः मृगस्यानुपदी अन्वेष्टा
'१८९०१ अनुपद्यन्वेष्टा ।५।२।१०।' इति निपातनात् साधुः । गजविक्रमः । गज-
गमनमिव गमनं यस्येत्यर्थः ॥
 
२३४ - स्थायं स्थायं क्वचिद् यान्तं
कान्त्वाकान्त्वा स्थितं क्वचित् ॥
वीक्षमाणो मृगं रामश्
चित्र वृत्तिं विसिष्मिये ॥ ५१ ॥
 
-
 
स्थायमित्यादि – मृगं चित्रवृत्तिमद्भुतशरीरचेष्टं वीक्षमाणो रामो विसि-
प्मिये विस्मितः । प्मिङो ङिच्वादात्मनेपदम् । षोपदेशत्वाच्चाभ्यासेण: परस्य
सस्य षः । चित्रवृत्तितां दर्शयन्नाह -- स्थायं स्थायं स्थित्वा स्थित्वा । क्वचित् प्रदेशे
यान्तं त्वा क्रान्त्वा । क्वचित्प्रदेशे उल्लुत्यो स्थितम् । आभीक्ष्ण्ये णमुलि
क्वाणमुलौ द्विर्वचनं च ॥
 
२३५ - चिरं क्लिशित्वा मर्मा-विद् रामो विलुभित-प्लवम् ॥
शब्दायमानम॑व्यात्सीत् भय दं क्षणदाचरम् ॥५२॥
 
चिरमित्यादि - रामः क्षणदाचरं मारीचमण्यात्सीत् विद्धवान् । व्यर्लंड
हलन्तलक्षणा वृद्धिः । मर्माविद्रामः मर्माणि विध्यतीति विप् । '१०३७॥ नहि-
वृति – ।६।३।११६।' इत्यादिना पूर्वपदस्य दीर्घत्वम् । चिरं क्लिशित्वा महान्तं काल-
मायस्य । अत्यन्तसंयोगे द्वितीया । '३०४९ । किश: क्त्वानिष्ठयोः ।७।२।५० ।
इति विकल्पेनेट् । तत्र '२६१७ । रलो व्युपधात्- । १।२।२६।' इति किवबिकल्पे
'३३२६ । मृद - मृद ।१।२।७।' इत्यादिना कित्वम् । विलुभितलवं व्याकुलितग-
मनम् । '३०४८। लुभो विमोहने ।७।२।५४ । इतीट् । विमोहनं व्याकुलीकर-
णम् । शब्दायमानं शब्दं कुर्वाणम् । ८२६७३ । शब्द - वैर - ।३।१।१७।' इति
क्यङ् । भयदं निशाचरम् । शब्दविशेषणं वा ॥