This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः-
२२६ - वन - तापस के वीरौ विपक्षे गलितता॒ऽऽदरौ ॥
 
किं चित्रं यदि सऽवज्ञौ मत्रतुः खर-दूषणौ ॥४३॥
वनेत्यादि – वने तापसो वनतापसः । कुत्सायां कन् । तस्मिन् वनतापसके
रामे सावज्ञत्वाद्गलितादरौ विपक्षे किमयं करिष्यतीत्यश्रद्धयैव योधितवन्तौ
खरदूषणौ वीरौ यदि मत्रतुः मृतौ को दोषः किं चित्रम् । '२५३८ । म्रियतेलु-
लिङोश्च । १।३।६१।' इति नियमात् लिट्यात्मनेपदं न भवति ॥
 
२२७ - त्वं च भीरुः सुदुर्बुद्धे ! नित्यं शरण-काम्यसि ॥
 

 
गुणांश् चऽपहुषेऽस्माकं, स्तौषि शत्रूश् च नः सदा ॥
त्वं चेत्यादि — हे सुदुर्बुद्धे ! त्वं पुनः भीरुश्च भवसि नित्यं शरणकाम्यसि ।
आत्मनोऽनिश शरणमिच्छसि । आत्मेच्छायां काम्यच् । अस्माकं च सतो गुणा-
नपहुषे अपनयसि । '११५६ । हुङ् अपनयने' आदादिकः । ङित्त्वात्तङ् । शत्रूंश्च
नोऽस्माकं स्तौषि । स्तौतेः '२४४३ । उतो वृद्धिलुकि हलि ।७।३।८९॥ ॥
२२८ - शीर्षच्- छेद्यम॑तोऽहं त्वा करोमि क्षिति-वर्धनम्
कारयिष्यामि वा कृत्यं विजिघृक्षुर् वनौकसौ ॥४५॥
शीर्षेत्यादि- - यत एवंविधस्त्वं दुष्टः अतोऽहम् । '४०७ । त्वा- मौ द्वितीया -
याः ।८।१॥२३॥' इत्याष्टमिकलक्षणेन त्वादेशः । शीर्पच्छेद्यं शीर्पच्छेदार्हम् ।
'१७३० । शीर्षच्छेदात् ।५।१।६५ । क्षितिवर्धनं करोमि । शिरश्छित्वा व्यापा-
दयामीत्यर्थः । अथवा कृत्यं करणीयम् । '२८७१। विभाषा कृ-वृपोः । ३।१।१२०॥
इति क्यप् । कारयिष्यामि । १५४१ । हृ-क्रोः- ११४/५३।' इति द्विकर्मकता ।
विजिघृक्षुः विग्रहीतुमिच्छुः । '२६१० । साने ग्रह-गुहोश्च ।७।२।१२ ।' इतीट्स-
तिषेधः । '२६०९ । रुद - विद - ।१।२।८।' इत्यादिना सनः कित्त्वे '२४१२॥ ग्रहि-
ज्या–१६।१।१६।' इत्यादिना संप्रसारणम् । '३२४ । हो ढः ॥२।३१।' । '३२६॥
एकाचो बशो भष्- ॥२।३७॥ '२९५ । पढोः कः सि ।८।२॥४।१॥ वनौकसौ
रामलक्ष्मणौ । वनमोको गृहं ययोः । '६२७ । न लोक-।२।३।६९ । इति कर्मणि
षष्ठ्याः प्रतिषेधः ॥
 
२२९ - तमु॑द्यत - निशाता॒ऽसिं
प्रत्युवाच जिजीविषुः ॥
 
मारीचो ऽनुनयंस् त्रासाद्
'अभ्यमित्र्यो भवामि ते ॥ ४६ ॥
 
-
 
,
 
९९
 
तमित्यादि —तं रावणं एवमुक्तवन्तम् । निशात इति '३०७५ । शाच्छो-
रन्यतरस्याम् ।७।४।४१॥' इतीत्वाभावपक्षे रूपम् । उद्यत उत्थापितः निशात-
तीक्ष्णोऽसिन तं मारीचस्वासात् प्रत्युवाच वचनमुक्तवान् । अभ्यमित्र्यो