2023-02-15 17:22:00 by ambuda-bot
This page has not been fully proofread.
भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पचमो वर्गः,
क्रोशे कृञः खमुज् ।३।४।२५॥ यातयामं गतवयसम् । यदि विजितवान् रामो
दाशरथिः । किं ततः किं तापसः शूरः ॥
२२३ - अघानि ताडका तेन
लज्जा-भय-विभूषणा, ॥
स्त्री - जने यदि तच् छाघ्यं,
९८
धिग् लोकं क्षुद्र मानसम् ॥ ४० ॥
-
अघानीत्यादि – तेन रामेण ताडका अधानि व्यापादिता । हन्तेः कर्मणि
लुङ् । लजा च भयं च विभूषणं यस्याः । स्त्रीत्वान्न शौर्यम् । एवंविधाया अनेन
रामेण यदि गर्ह्यमपि हननं स्त्रीजने श्लाव्यं श्लाघनीयम् । '६२९। कृत्यानां कर्तरि
वा । २।३।७१।' इति तृतीया । तं घिकू लोकं क्षुद्रमानसं हीनमानसम् ॥
२२४ – यद् गेहे- नर्दिनम॑सौ शरैर् भीरुम॑भाययत् ॥
कु-ब्रह्म- यज्ञ के रामो भवन्तं, पौरुपं न तत् ॥ ४१ ॥
यह इत्यादि — असौ रामो यद्भवन्तं भीरुं दारैरभाययत् भायितवान् ।
युगात्मनेपदे न भवतः भयहेतोरभावात् । अत्र हि शरेभ्यो भयम् नतु रामात् ।
तत् किम् । पौरुषकारः किमसौ । युवादित्वादण् । गेहेनर्दिनं गेह एव नर्दिनम् ।
'७२५॥ पात्रे समितादयश्च ।२।१।४८।' इति सः । कुब्रह्मयज्ञके । कुत्सिता ब्रह्माणः
कुब्रह्माः । कुः पापार्थ इति सः । ८८०६ । कु-महद्भ्यामन्यतरस्याम् ।५।४।१०५१
इति समासान्तष्टच् । तेषां कुत्सितो यज्ञः । तस्मिन् सति कुत्सायां कन् । तेन
शूरम्मन्योऽहं रणात्तेन निरस्तः इत्यपुष्कलमुक्तम् ॥
२२५ - चिर - काोषितं जीर्ण कीट निष्कुषितं धनुः ॥
किं चित्रं यदि रामेण भग्नं क्षत्रिय काऽन्तिके ॥४२॥
-
चिरेत्यादि – यदि रामेण क्षत्रियकान्तिके । कुत्सितक्षत्रियसमीपे । भग्नं
धनुः किं तच्चित्रमाश्चर्यम् । क्षत्रिया जनकादयः तस्य कुत्सायां कन् । क्षत्रियक-
स्यान्तिके । दूरान्तिकार्ययोगे पष्टीसमासं विधाय पश्चात् । '६३३ । सप्तम्यधि-
करणे च ।२।३॥३६ ।' इति चकाराद्दूरान्तिकार्थेभ्यश्चेति सप्तमी । किमिति न
चित्रमित्याह – चिरकालमुपितमिति । '५५८० कालाऽध्वनो:-।२।३।५। इति
द्वितीयां विधाय । ६९१ । अत्यन्त संयोगे च ।२।१।२९।' इति द्वितीयासमासः ।
जीर्णं चिरकालोषितत्वात् । '१२०५ । लृप् वयोहानौ' । निष्ठा । '२३९०। ऋत
इद्धातोः ।७।१।१००।' इको '३५४ । हलि च ।८।२।७७ ।' इति दीर्घः । '३०१६ ।
र दाभ्याम् । ८।२।४२।' इति निष्ठानत्वम् । कीटैर्युणैर्निष्कुषितं खादितम् । निरः
कुषः इत्यनुवर्तमाने '३०४५ । इण् निष्ठायाम् ।७।२।१७।' इती ॥