This page has not been fully proofread.

भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः,
 
'२३३१। सँल्लिटोजेंः ।७।३।५७ ।' इति कुत्वम् । सार्वलौकिकं सर्वलोके विदितम् ।
८१७१० । लोक-सर्वलोकाभ्यां ठञ् ।५।१।४४॥ १४३८ । अनुशतिकादि- १७॥३॥
२०।' इत्युक्तत्वादुभयपदवृद्धिः । सार्वलौकिक इति पाठान्तरम् । अत्र राम
इति योज्यम् ॥
 

 
२१७–यमा॒ऽऽस्य-दृश्वरी तस्य ताडका वेत्ति विक्रमम् ॥
शूरं - मन्यो रणाच् चऽहं निरस्तः सिंह नर्दिना ३४
यमेत्यादि – तस्य रामस्य विक्रमं ताडका वेत्ति ज्ञातवती । '२७८९१ । वर्त
मानसामीप्ये-।३।३।१३१॥ इति भूते लट् । कीदृशी । यमास्यदृश्वरी । तच्छ्र-
रताडिता यममुखं दृष्टवती मृतेत्यर्थ: । '३००४ । दृशेः क्वनिप् ।३।२१९४॥' '४५७१
नोरच ।४।१।७॥' इति ङीब्रेफौ । अहमपि शूरम्मन्यः शूरमात्मानं मन्य-
मानः '२९९३ । आत्ममाने खश्च । ३ । २ । ८३ ।' सिंहनर्दिना रामेण सिंह इव नतीति
'२९८९ । कर्तर्युपमाने । ३।२।७९॥ इति णिनिः । रणान्निरस्तः बहिष्कृत इत्यर्थः ॥
२१८ - न त्वं तेना॑ ऽन्वभाविष्ठा,
 
नां ऽन्वभावि त्वया ऽप्यमौ ॥
अनुभूतो मया चां, ऽसौ,
 
तेन च॑ ऽन्वभविष्य॑ह॒म् ॥ ३५ ॥
 
"
 
न त्वमित्यादि – तेन रामेण त्वं नान्वभाविष्टाः । त्वमनेन नानुभूतः ।
कर्मणि लुङ् । थासि २७५७१ स्य- सिच्- ।६।४॥६२।' इत्यादिना चिण्वदि
त्वम् । नान्वभावि त्वयाऽप्यसौ नानुभूतः । येनैवमुच्यते । अत्र '२७५८ । चिण्
भाव-कर्मणोः ।३।१।६६ ।' इति चिण् । अनुभूतो मया चासौ । चशब्दः पुन-
रित्यर्थे । मया पुनरसावनुभूतः न शक्यो जेतुमिति । तेन रामेण चान्वभविष्य-
हमनुभूतोऽहम् । तेन सह योद्धुमक्षम इति । अत्र चिण्वद्भावो न कृतः किन्तु
लुङि उत्तमपुरुषैकवचने वलादिलक्षण इट् । तेन वृद्ध्यभावात् गुण एवेति ॥
२१९-अध्यङ् शस्त्र-भृतां रामो,
 
न्यञ्चस् तं प्राप्य मद्-विधाः ॥
स कन्या शुल्कर्मभनङ्
 
मिथिलायां मखे धनुः ॥ ३६॥
 
अध्यङ्कित्यादि -- शस्त्रभृतां मध्ये रामोऽध्यङ् अधिकः । अध्यञ्चत्याधिक्येन
वर्तत इति ' ३७३ । ऋत्वि । ३।२।५९ । इत्यादिना किन् तस्मिन् लुप्ते 'अनुना-
सिकलोपे '३६१॥ उगिदचां-।७।१।७० ।' इति नुम् । तस्यानुस्वारपरसवर्णत्वे
कृते च हलङयादिसंयोगान्तलोपौ । नकारस्य ' ३७७ । क्विन्प्रत्ययस्य कुः ।८।२।६२।'
इति कुत्वेन इन्कारः । तं तादृशं प्राप्य मद्विधा न्यञ्चो हीनाः । निशब्दोऽन्नाधो