This page has not been fully proofread.

-
 
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः-
९५
 
२१३ - उत्पत्य खं दश-ग्रीवो मनो-यायी शिताऽस्त्र भृत् ।
 
M
 
समुद्र - सविधाssवासं मारीचं प्रति चक्रमे ॥ ३० ॥
उत्पत्येत्यादि — उक्त्वैवं खमाकाशमुत्पत्य मारीचं प्रति चक्रमे । यत्र मारी -
चो राक्षसस्तन्न गत इत्यर्थः । '२७१६ । अनुपसर्गाद्वा ।१।३।४३।' इति क्रमेस्त ।
मनोवदाशु यातुं शीलमस्येति । '२९८९ । कर्तर्युपमाने ।३।२।७९।' इति णिनिः ।
शितास्त्रभृत् गृहीततीक्ष्णचन्द्रहासः । समुद्रस्य सविधे समीपे आवासो यस्
मारीचस्य । सह विधेन सविधमिति व्युत्पत्तिमात्रं शब्दस्तत्समीपवाची ॥
 
."
 
--
 
२१४ - सम्पत्य तत्- सनीडेऽसौ तं वृत्तान्तम॑शिश्रवत् ॥
त्रस्तु॒नाऽथ श्रुता॒ऽर्थेन तेना॑ऽगादि दशा॒ऽऽननः ३१
सम्पत्येत्यादि – असौ दशग्रीवः तत्सनीडे मारीचस्य समीपे । अत्रापि
सह नीडेनेति व्युत्पत्तिमात्रम् । समेत्य यात्वा । तं वृत्तान्तम् शूर्पणखाकथितम-
शिश्रवत् श्रावितवान् । शृणोतेर्ण्यन्तस्य लुङि रूपम् । तेन मारीचेन तान
त्रस्तुना त्रसनशीलेन दशाननः अगादि उक्तः । कर्मणि लुङ् ॥
२१५ - 'अन्तर्धत्स्व रघु- व्याघात् तस्मात् त्वं राक्षसेश्वर ! ॥
 
3
 
यो रणे दुरुपस्थानो हस्त-रोधं दधद् धनुः ॥ ३२ ॥
अन्तरित्यादि — हे राक्षसेश्वर ! त्वं तस्माद्वंदुव्याघ्रादन्तर्धत्स्व अन्तर्हितो
भव व्यवहितो भवेति यावत् । दुधातेर्लोटि '२४८३ । श्वाभ्यस्तयोः । ६।४।११२॥१
इत्याकारलोपः । अभ्यासस्य '२५०१ । दुधस्तथोश्च ।८।२।३८।' इति भवभावः ।
५९१ । अन्तर्छौं येना- ।१।४।२८।' इत्यपादानसंज्ञा । यस्मात् स रामः रणे
पस्थानः दुःखेन उपस्थीयते उपगम्यत इति । आतो युच् । यतो हस्तरोधं दूध-
द्धनुः हस्तेन रुवा सदैव यो धनुर्धत्ते स कथं दुरुपस्थानो न भवति । हस्तशब्दे
तृतीयान्त उपपदे '३३७० । सप्तम्यां चोपपीड-रुधः- कर्षः ।३।४।४।१९।' इति णमुल ।
चकारेण तृतीयायाः समुच्चितत्वात् । अत्र '७८४॥ तृतीयाप्रभृतीन्यन्यतरस्याम्
।२।२।२१।' इति सः ॥
 
तदेव दुरुपस्थानत्वं स्फुटयन्नाह -
 
२१६ - भवन्तं कार्तवीर्यो यो हीन - सन्धिम॑चीकरत् ॥
 
"
 
जिगाय तस्य हन्तारं स रामः सार्वलौकिकम् ॥ ३३॥
 
भवेत्यादि — यः कार्तवीर्यः कृतवीर्यस्यापत्यं सहस्रबाहुः भवन्तं हीनसन्धि-
मचीकरत् । हीनेन दुर्बलेन यः सन्धिः तं भवन्तं कारितवान् । तेन हीनत्वम् ।
बलानिर्जित्य कारित इति दुरुपस्थानमुक्तम् । १५४१ । हृ-क्रोरन्यतरस्याम्
॥१॥४॥५४॥' इति द्विकर्मकता । तस्य कार्तवीर्यस्य यो हन्ता परशुरामः । कृत्प्रयोगे
कर्मणि षष्ठी । तेन हि तस्याग्निहोत्रधेनुमपहृत्य गच्छतः परशुना बाहुसहस्रं
छिन्नम् । तस्य हन्तारं स रामो जिगाय जितवान् । जयतेर्लिटि धातुजकारस्य