This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके राम- प्रवासो नाम पञ्चमः सर्गः -
 
'४९४ । वृषाकप्यग्नि-कुसित-कुसिद- ।४।१।३७।' इत्यादिना ऐरिति सर्वत्र '५०४ ।
पुयोगादाख्यायां ।४।१॥४८॥ इति ङीष् । रोहिणी चन्द्रभार्या । रोहितशब्दात्
'४९६ । वर्णादनुदात्तात् ।४।१॥३१।' इत्यादिना ङीय् नकारश्च । वरुणानी न
नाम्नायीत्यत्र प्रतिषेध एकः पूर्वेण योज्यः द्वितीयः परेणेति । न चानायीति
पाठान्तरम् ॥
 
,
 
२०६ - प्रत्यूचे राक्षसैन्द्रस् ताम्-
'आश्वसिहि, विभेषि किम् ॥
त्यज नक्तञ्चरि ! क्षोभं,
वाचाटे ! रावणो ह्य॑हम् ॥ २३ ॥
 
प्रत्यूच इत्यादि - राक्षसेन्द्रो रावणः । राक्षसीं प्रत्यूचे । प्रतिवचनमुक्त-
वान् । आश्वसिहि खेदं त्यज । '२४७४ । रुदादि ।७।२।७६ ।' इत्यादिना इट् ।
बिभेषि किमर्थं तापसकात् । हे नक्तञ्चार ! मद्विषये क्षोभं रोषं यज । वाचाटे
बहुभाषिणि । '१९३१। आलजाटचौ बहुभाषिणि ।५।२।१२५॥ यस्माद्रावणो-
ऽहम् । अनेनात्मोत्कर्षमावेदयति ॥
 
तमेव स्फुटयन्नाह -
 
२०७ - मार्मुपास्त दिदृक्षा चान्
याष्टीक-व्याहतो हरिः ॥
आज्ञा-लाभोन्मुखो दूरात्
काक्षेणा॑ ऽनदरेक्षितः ॥ २४ ॥
 
मामित्यादि मामुपास्त सेवितवान् । हरिरिन्द्रः । दिदृक्षावान् द्रष्टुमिच्छा-
वान् । आत्मदर्शनेच्छावानित्यर्थः । दूरादेव याष्टीकैः वेत्रग्राहिभिर्व्याहतोऽपसा-
रितः । '६९४ । कर्तृ- करणे कृता ।२।१।३२।' इति सः । यष्टिः प्रहरणमेषामिति
'१६५९। शक्ति-यष्ट्योरीक ।४।४।१९॥ आज्ञालाभे किमभिधास्यतीत्युत्सुक
उन्मुखः तत्परः । सप्तमीति योगविभागात् सः । अनादरेक्षितः अवज्ञाविलो-
कितः । काक्षेण कुदृष्ट्या । '१०३० । का पथ्यक्षयोः ।६।३।१०४।' इति कुशब्दस्य
कादेशः । यदि तत्पुरुष इत्यनुवर्तते तदा कुत्सितमक्षमिति विग्रहः । अक्षशब्द-
स्थेन्द्रियसामान्याभिधायित्वेऽपि ईक्षितशब्दोपपदत्वाच्चक्षुषि वर्तते । अथ तत्पु-
रुष इति नानुवर्तते सामान्येनादेशस्तदा कुत्सितमक्षि यस्येति । '८५२ । बहुव्री-
हौ सक्थ्यक्ष्णोः ।५।४।११३। इति षच् । काक्षेण मयेत्यर्थः ॥
 
. २०८ - विरुग्णो-दग्र-धाराऽग्रः कुलिशो मम वक्षसि ॥
अ-भिन्नं शत-धा ऽऽत्मानं मन्यते बलिनं बली ॥ २५ ॥
 
.