This page has not been fully proofread.

२२
 
भट्टिकाव्ये -- प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे पञ्चमो वर्गः,
२०३ - सारो ऽसावि॑िन्द्रियाऽर्थानां,
यस्या॑ ऽसौ तस्य नन्दथुः ॥
तल्पे कान्ताऽन्तरैः सार्ध
 
मन्ये ऽहं धिङ् निमज्जथुम् ॥ २० ॥
 
-
 
सार इत्यादि — इन्द्रियार्थानां मध्ये सारोऽसौ दयिता इन्द्रियार्थः । रूपा-
द्यतिशययोगात् । यस्यासौ संपद्यते तस्य नन्दथुः आनन्दश्चेतसः । तल्पे शयनीये
यस्य कान्तान्तरैरन्यस्त्रीभिः सार्धं निमज्जथुं शयनम् । सर्वत्र '३२६७ । द्वितो-
थुच् ।३।३।८९१ । तस्य धिक् कुत्सितमहं मन्ये । 'उभसर्वतसोः' इत्यादिना
धिग्योगे द्वितीया । तया सार्धं शोभनमित्यर्थादुक्तं भवति ॥
२०४ - न तं पश्यामि, यस्या॑ ऽसौ
भवेन् नोंदेजया मतेः ॥
त्रैलोक्येना॑ऽपि विन्दस् त्वं
 
तां क्रीत्वा सुकृती भव ॥ २१ ॥
नतमित्यादि – सर्वथा न तं पश्यामि जानामि जगति यस्य संबन्धिन्याः
मतेश्वेतसः उदेजया उत्कम्पिकासौ न भवेत् । चित्तक्षोभजनिकेत्यर्थः । उद्वेजय-
तीति ' २९००। अनुपसर्गाल्लिम्प-।३।१।१३८ ।' इति कर्तरि शः कृयोगे कर्मणि
षष्टी । तस्मात् त्रैलोक्येनापि । त्रयश्च ते लोकाश्च त्रिलोकाः । त एव त्रैलो-
क्यम् । चातुर्वर्ण्यादित्वात् स्वार्थे प्यञ् । 'स्वार्थिका अतिवर्तन्ते' इति नपुंसक-
त्वम् । तेनापि तां क्रीत्वा लब्ध्वा विन्दस्त्वं सुकृती भव पण्डितो भव । आढ्यो
वा भव । पाण्डित्यमस्य त्रैलोक्यमात्रेणापि स्त्रीरलं कीत्वा लब्धमिति । विन्द-
तीति तेनैव सूत्रेण शः ॥
 
अन्या अपि स्त्रियः सन्तीति चेदाह -
२०५ - नैवेन्द्राणी, न रुद्राणी,
न मानवी, न रोहिणी, ॥
वरुणानी न, नो ऽनायी
 
तस्याः सीमन्तिनी समा. ' ॥ २२ ॥
नैवेत्यादि — तस्यास्तु सीतायाः । '६३०। तुल्यार्थैरतुलोपमाभ्याम् ।२।३।
७२।' इति षष्टी । न काचित् सीमन्तिनी स्त्री समा तुल्या । 'सीमन्तः केशवे-
शे' इति पररूपत्वम् । अन्यत्र सीमाऽन्तः । स विद्यते यस्या इति इनिः । इन्द्रा-
णी इन्द्रभार्या । न सम्यक् किं पुनरन्या । तथा रुद्राणी रुद्रभार्या । वरुणानी
वरुणभार्या । ८५०५ । इन्द्र वरुण । ४।१।४९॥ इत्यादिना आनुक् । मानवी
मनुभार्या । '४९५। मनोरौ वा ।४।१।३८।' इत्यौकारः । अनायी अभिभार्या ।