This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः-
पाने प्रसक्तः । '७१८। सप्तमी शौण्डैः ।२।१।४०।' इति सः । अत एव प्रमाद्वान् ।
अतोऽपि खनारूढः उत्पथप्रस्थितः '६८८। खट्दाक्षेपे ।२।१।२६॥ इति द्वितीया
सः । तत एव पात्रेसमितैः भोजन एव सन्निहितैः अनुजीविभिर्वृतः । '७२५॥
पात्रेसमितादयश्च ।२।१।४८।' इति क्षेपे सः ॥
 
१९४ - अध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान् ॥
 
अत्तुं महेन्द्रियं भागमे॑ति दुश्यवनो ऽधुना, ॥ ११ ॥
अध्वरेष्वित्यादि-स्वय्येवम्भूतेऽधुना दुश्यवन इन्द्रः आश्रमानैति आग-
च्छति । आङ्पूर्वस्येणः ७३ । एत्येधत्यू । ६ । ११८९ । इति वृद्धिः । सोमसु-
स्वतः सोमं सुनोतीति '३०००। सोमे सुजः ।४।२।१०॥ इति क्वि । सोमसुतः
सन्ति येवमेवति मतुप् । १८९६ । तसौ मत्वर्थे ।१।४।१९।' इति भावे
तकारस्य जश्त्वं न भवति । १८९८ । झयः ।८।२।१०।' इति मतोर्वत्वम् ।
किमर्थमेतीत्याह-अत्तुं भक्षयितुं महेन्द्रियं भागम् । महेन्द्रो देवता अस्येति ।
'१२३१॥ महेन्द्राद्वाणौ च ॥४।२।२९॥ इति वः । क्व । अध्वरेषु यज्ञेषु । अग्नि-
चित्वत्सु । अग्निं चितवन्तोऽग्निचितः आहितामयः । '३००१ । अग्झौ चेः
१३।२।११।' इति विप् । ते सन्ति येष्विति पूर्ववन्मतुप् ॥
 
१९५ - आमिक्षीयं दधि-क्षीरं पुरोडाश्यं तथैौषधम् ॥
 
हविर् हैयङ्गवीनं च ना॑ऽप्युपघ्नन्ति राक्षसाः ॥ १२॥
 

 
आमीत्यादि - दना सहितं शृतं पय आमिक्षा । तस्मै हितमामिक्षीयम् ।
'१६६४। विभाषा हविरपूपादिभ्यः ।५।१।४।' इति छयतौ । दधि च क्षीरं चेति ।
'९१६ । विभाषा वृक्ष । २।४।१२।' इत्यादिना व्यञ्जनत्वादेकवद्भावः । पुरोडा-
शाय हितमौषधं नीवारतण्डुलादि पुरोडाइयम् । अपूपादित्वाद्यत् । ओषधिरे-
वौषधम् '२१०५ । ओषधेरजातौ ।५।४।३७।' इत्यण् । तण्डुलानामजातित्वात् ।
'स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति नपुंसकलिङ्गता । हविः
हुयत इति हविः । 'अर्चि - शुचि' इत्यौणादिक इस् । हैयङ्गवीनं घृतम् । ह्येगो-
दोहस्य विकार इत्यर्थे ' १८२४ । हैयङ्गवीनं संज्ञायाम् ।५।२।२३।' इति निपात -
नात् खञ् हियंग्वादेशश्च । तानि नाप्युपघ्नन्ति राक्षसाः त्वय्युदासीने सति ॥
इदानीं कार्य प्रदर्शनेन प्रोत्साहयितुमाह -
 
१९६ - युव- जानिर् धनुष्- पाणिर् भूमिष्ठः ख- विचारिणः ॥
 
रामो यज्ञ द्रुहो हन्ति काल- कल्प-शिलीमुखः ॥१३॥
युवेत्यादि — युवतिः यौवनवती जाया यस्य युवजानिः । '८७२ । जायाया
निङ् ॥६॥१॥७६॥' वलि लोपः । '८३१ । स्त्रियाः पुंवत् । ६।३।३४।' इत्यादिना
युंवद्भावात् स्त्रीप्रत्ययो निवर्तते । धनुष्पाणिः पाणौ धनुर्यस्य । प्रहरणेत्यादिना