This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके राम- प्रवासो नाम पञ्चमः सर्गः --
 
कारण्यात् रावणं पतिं प्रभुं शरणं जगाम गतवती । पारेसमुद्रम् । समुद्रस्य पार
इति '६७२ । पारे मध्ये षष्ठ्या वा ।२।१।१८।' इत्यव्ययीभावः । तत्सन्नियोगेन
पूर्वपदस्यैकारान्तत्वम् । पश्चात्सप्तमी । '६५७॥ नाव्ययीभावात् ।२।४।८३।' इत्य-
म्भावः । समुद्रस्य पारे स्थितायां लङ्कायां वसन्तं रावणमिति ॥
१८८ - संप्राप्य राक्षस - सभं चऋन्द क्रोध-विह्वला ॥
 
८७
 
ढौकित्वा । राक्षसानां
 
नाम- ग्राहमरोदीत् सा भ्रातरौ रावणाऽन्तिके ॥ ५॥
संप्राप्येत्यादि-सा शूर्पणखा राक्षससभं सं
सभेति '८२६ । सभा राजा - ।२।४।२३।' इत्यादिना नपुंसकता । चक्रन्द ऋन्दनं
कृतवती । क्रोधविह्वला क्रोधविवशा । भ्रातरौ खरदूषणावरोदीत् रुदितवती ।
नामग्राहं नाम गृहीत्वा । भ्रातरौ खरदूषणाविति । '३३८० । नायादिशिग्रहोः
।३।३।५८।' इति णमुल । अत्र नामग्रहणविशिष्टाया रोदनक्रियाया व्याप्तुभिष्ट.
त्वादिः सकर्मकः । रावणान्तिके रावणसमीपे । सप्तम्यधिकरणे चेति चकारा-
दूरान्तिकार्थेभ्य इति सप्तमी ॥
 
तयोः किं जातमिति रावणेन पृष्टाह-
,
 
१८९ - 'दण्डकान॑ध्य॒वात्तां यौ वीर ! रक्षः प्रकाण्ड कौ ॥
नृभ्यां संख्येऽकृषातां तौ स-भृत्यौ भूमि-वर्धनौ ॥ ६ ॥
 
दण्डकानित्यादि — हे वीर ! दण्डकान् दण्डकारण्यसन्निवेशान् अध्यवात्ताम्
अध्युषितवन्तौ । '१०७४ । वसँ निवासे ।' इत्यस्मालुङ् । हलन्तलक्षणा वृद्धिः ।
' २३३२ । सः सि ।७।४।४९॥ इत्यादिना धातुसकारस्य तत्वम् । '२२८१ । झलो
झाल ।८।२।२६।' इति सिचो लोपः । रक्षःप्रकाण्डको प्रशस्तौ राक्षसौ । '७४७।
प्रशंसा - वचनैश्च ।२।१।६६।' इति समासः । ततः स्वार्थे कन् 'स्वार्थिकाश्च प्रकृ
तितो लिङ्गवचनान्यतिवर्तन्ते' इति नपुंसको न भवति । अन्यथा रूढिशब्दाः
प्रशंसावचना आविष्टलिङ्गत्वादन्यलिङ्गेऽपि जातिशब्दे स्वलिङ्गोपादानादेव समा-
नाधिकरणाः स्युः । यथा गोप्रकाण्डमिति । तौ नृभ्यां मनुष्याभ्यां सङ्ख्ये युद्धे
भूमिवर्धनावकृषातां कृतौ । कर्मणि लुङ् । अचिण्वद्भावे रूपम् । वर्धेते इति
वर्धनौ । '२८४१॥ 'कृत्यल्युटो बहुलम् ।३।३।११३।' इति कर्तरि ल्युट् । भूमेर्व-
र्धनाविति सः । भस्मीकृतशरीरस्य भूमौ लीयमानत्वात् । सभृत्यौ नैकाकिनौ ॥
९९० - विग्रहस् तव शक्रेण बृहस्पति-पुरोधसा ॥
 
सार्धं कुमार-सेनान्या, शून्यश् चऽसीति को नयः.
विग्रह इत्यादि — बृहस्पतिः पुरोधा मन्त्री यस्य शकस्य तेन । कार्येषु पुरो
घीयत इति पुरोधाः । पुरःपूर्वाद्वाजः सर्वधातुभ्योऽसुन् । तथा कुमारः कार्ति-
केयः सेनानीर्यस्य । सेनां नयतीति '२९७५ । सत्सू - द्विष - ।३।२।६१।' इत्यादिना
क्विप् । तेन शक्रेण सार्धं सह तव विग्रह आसीत् । इदानीं कार्यनिपुणाभावात्