2023-02-15 17:21:58 by ambuda-bot
This page has not been fully proofread.
भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पचमो वर्गः,
पञ्चमः सर्गः-
—
१८४ - निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम् ॥
उत्पतिष्णू सहिष्णू च चेरतुः खर-दूषणौ ॥ १ ॥
निरेत्यादि – खरदूषणौ रणं परितः समन्तात् । 'अभितः - ' इत्यादिना द्वि-
तीया । चेरतुः भ्रान्तौ । निराकरिष्णू शत्रुनिराकरणशीलौ । वर्तिष्णू अभिमुग्वं
वर्तनशीलौ न पलायनशीलौ । वर्धिष्णू मायया महाप्राणोद्भावनशीलो । उत्प
तिष्णू नभ उत्पतनशीलौ । सहिष्णू शस्त्रप्रहारसहनशीलौ । सर्वत्र '३११६॥
अलंकृञ्- ।३।२।१३६ ।' इत्यादिना इष्णुच् ॥
१८५ - तौ खड्ग - मुसल - प्रास-चक्र-वाण-गदा-करौ ॥
अकामा॑युध-च्छायं रजः-सन्तमसे रणे ॥ २ ॥
तावित्यादि —रणे रणभूमौ रजःसन्तमसे । सङ्गतं तमः सन्तमसम् ।
१९४७॥ अवसमन्धेभ्यस्तमसः ।५।४।७९ । इस्यच् । रजसा सन्तमसं अस्मिन् इति
रजःसन्तमसं तस्मिन् रजसा कृतान्धकारे तो खरदूषणौ आयुधच्छायमायुधबा-
हुल्यमका कृतवन्तौ । आयुधानां छायेति '८२५ । छाया बाहुल्ये ।२४।२२।
इति नपुंसकत्वे हस्त्रत्वम् । खड्डादीनां बाणान्तानां द्वन्द्वैकवद्भावं कृत्वा पश्चात्तेन
सहिता गदेति शाकपार्थिवादित्वात् सः । अन्यथा समुदायस्य ' ९१० । जातिर
प्राणिनाम् ।२।४॥६।' इत्येकवद्भावेन नपुंसकलिङ्गता स्यान् बाणगदमिति ।
खड्गमुसलप्रासचक्रबाणगढाः करे येषामिति समासे प्रहरणार्थेभ्य इत्यादिना
करशब्दस्य परनिपातः ॥
८६
१८६ - अथ तीक्ष्णाऽऽयसैर् बाणैरधि-मर्म रघूत्तमौ ॥
व्याधं व्याधर्म-मूढौ तौ यम - साच्चऋतुर् द्विपाँ. ॥ ३ ॥
अथेत्यादि —अथैतस्मिन् संग्रामे रघूत्तमौ रामलक्ष्मणौ कर्तृभूतौ । कर्मभूतौ
द्विषाविति । '२९७५ । सत्सूद्वि-।३।२।६१।' इत्यादिना विप् । यमसाच्चऋतुः
यमाधीनौ कृतवन्तौ । '२१२५ । तदधीनवचने ।५।४।५४।' इति सातिः । तीक्ष्णा-
न्यसैर्बाणैः । तीक्ष्णमायसं फलं येषामिति । व्याधं व्याधं विवा विछ्वा । '३३-
४३ । आभीक्ष्ण्ये णमुल । ३ । ४॥२२।' तत्र '३३२० । समानकर्तृकयोः पूर्वकाले
३।४॥२१।' इति वर्तते । 'भाभीक्ष्ण्ये द्वे भवतः' इति द्विवचनम् । अधिमर्मेति
विभक्त्यर्थेऽव्ययीभावः । अमूढौ सावधानौ रामलक्ष्मणौ ॥
मर्मवेधमेवाह-
१८७ हत- बन्धुर् जगाम ऽसौ ततः शूर्पणखा वनात् ॥
पारे - समुद्रं लङ्कायां वसन्तं रावणं पतिम्
॥ ४ ॥
हृतेत्यादि — असौ शूर्पणखा हतबन्धुः व्यापादितभ्रातृद्वया ततो वनाहुण्ड•
c
"