This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम चतुथः सर्गः-
-
 
शोभां नैव केचन न केचिदपि '८०८ । टु भ्राजू दीप्तौ ।' सर्वत्र '३२६७ । द्वितो-
ऽथुच् ।३।३।८९ ।' ॥
 
१८२ - मृगयुमिंव मृगो ऽथ दक्षिणेर्मा,
दिशमिव दाह-वर्ती मरार्बुदन्यन् ॥
रघु-तनयर्मुपाययौ त्रि-मूर्धो;
 
>
 
विषभृदि॑िवग्र- मुखं पतत्रि-राजम् ॥ ४४ ॥
 
."
 
मृगयुमित्यादि – अथैतस्मिन् राक्षसविध्वंसनग्रस्तावे त्रिमूर्ध: त्रिशिरा नाम
राक्षसः रघुतनयमुपाययौ उपागतः । मृगयुमिव लुब्धकमिव । मृगान् यातीति
मृगयुः । मृगय्वादयश्चेत्यौणादिककुप्रत्ययान्तः । दक्षिणेर्मा दक्षिणे ईर्म व्रणं यस्येति
। '८३५ । दक्षिणेर्मा लुब्धयोगे ।५।४।१२६।' इत्यानिच् । यथा मृगो लुब्धकनाणे-
तदक्षिणाङ्गः तमेव मरणायोपयाति । दिशमिव दाहवतीं यथा दिशं दावाग्नियुतां
मरौ निर्जले देशे मृग उदन्यन् उदकपानाभिलाष उपयाति । उदकमिच्छति ।
'२६५७। सुप आत्मनः । ३ । १।८।' इति क्यच् । उदकस्योदनू भावः । '२६६१ ।
असनायो—।७।४।३४।' इत्यादिना निपातितः । तदन्तालट् शतृप्रत्ययः । विषभू-
दिव यथा विषधरः सर्प उग्रमुखं भीषणमुखं पतत्रिराजं गरुडमुपयाति तद्वत्त-
मिति । '७८८। राजाऽहः सखिभ्यष्टच् ।५।४।११॥ ॥
 
१८३ - शिंत - विशिख- निकृत्त कृत्स्त्र - चक्रः
 
क्षिति- भृर्दिव क्षिति कम्प-कीर्ण-शृङ्गः ॥
भयमु॑पनिदधे स राक्षसानाम्
अ-खिल-कुल- क्षय- पूर्व-लिङ्ग-तुल्यः ॥ ४५ ॥
 
शितेत्यादि
- त्रिमूर्धो राक्षसानां भयमुपनिदधे उपनिहितवान् । कीदृशः ।
शित विशिखैस्तीक्ष्णविशिखैः निकृत्तानि छिन्नानि कृत्स्नानि सर्वाणि वक्राणि मुखा-
नि यस्य सः । क्षितिभृदिव भूधर इव । कीदृशः । क्षितिकम्पकीर्णशृङ्गः क्षितेर्भूमेः
कम्पेन कीर्णानि क्षिप्तानि शृङ्गाणि यस्य क्षितिभृतः । अखिलस्य सर्वस्य कुलस्य
क्षये विनाशे यत् पूर्व लिङ्गं तेन तुल्यः असावप्य खिलराक्षसक्षयस्य पूर्वलिङ्गतुल्यः ॥
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये -
प्रथमे प्रकीर्ण-काण्डे लक्षणरूपे चतुर्थः परिच्छेदः (वर्गः ),
तथा लक्ष्य रूपे कथानके श्री राम-प्रवासो नाम चतुर्थः
सर्गः पर्यवसितः ।
 
१ –सर्गान्तत्वाद् वृत्त-भेदः । तदर्धसमजातौ 'पुष्पिताम्रा' नाम । तलक्षणम् -
"अयुजि न-युग- रेफत्तो यकारो, युजि च न जौ जरगाश् च पुष्पिताग्रा ॥" इति
वृत्तरत्नाकरे भट्ट-केदारः । २८ (१८२) लोकस्थं टीकनं प्रेक्ष्यम् ।
 
भ० का० ८