2023-02-15 17:21:57 by ambuda-bot
This page has not been fully proofread.
८२
भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थी वर्गः,
तेश्चङि णिलोपः । ह्रस्वद्विवचनादि । अभ्यासस्य खयः शेपः । चवमित्वं च
सन्वद्भावे । निनङ्क्षुः नष्टुमिच्छुरित्यर्थः । नशेः सनि '२५१७ । मस्जि-नशोझलि
।७।१।६०।' इति नुम् ॥
१७२ - खर-दूपणयोर् भ्रात्रोः पर्यदेविष्ट सा पुरः ॥
विजिग्राहयिषू रामं दण्डकारण्य - वासिनोः ॥ ३४ ॥
खरेत्यादि — खरदूषणयोर्भ्रात्रोर्दण्डकारण्यवासिनोः पुरः अग्रतः पर्यदेविष्ट
परिदेवनं कृतवतीति । '५३४ । देवें देवने ।' इत्यस्मादात्मनेपदिनः सेटो लुङि
रूपम् । परिदेवने कारणमाह - विजिग्राहयिषुः रामं विग्राहयितुं योधयितुमि-
च्छुः । ग्रहेर्ण्यन्तस्य सन्नन्तस्य रूपम् । '१७३। रोरि ।८।३।१४।' इति रेफलोपः ।
'१७४ । ढ्-लोपे- । ६।३।१११॥' इति दीर्घत्वम् ॥
किं पर्यदेविष्ट इत्याह-
-
१७३ - ' कृते सौभागिनेयस्य भरतस्य विवासितौ ॥
पित्रा दौर्भागिनेयौ यौ, पश्यतं चेष्टितं तयोः ॥ ३५ ॥
कृते इत्यादि – भरतस्य कृते कार्यनिमित्तं राज्ये अभिषेक्तव्यमिति । सुभगा
केकयी तस्या अपत्यं सौभागिनेयः '११२३ । स्त्रीभ्यो ढक् ॥४।१।१२० ।' कल्या-
ण्यादीनामिनङ् तत्र सुभगा दुर्भगा चेति पठ्यते । '११३३ । हृद्भग – ।७।३।१९।'
इत्युभयपदवृद्धिः । पित्रा यौ विवासितौ निष्कासितौ दौर्भागिनेयौ कौसल्या
सुमित्रा च दुभंगे तयोरपत्ये रामलक्ष्मणौ तयोश्चेष्टितं नासाच्छेदनं पश्यतम् ।
विधौ प्रार्थनायां वा लोट् । थसस्तम् ॥
१७४-मम रावण-नाथाया
भगिन्या युवयोः पुनः ॥
अयं तापसकाद् ध्वंसः,
क्षमध्वं, यदि वः क्षमम् ॥ ३६ ॥
ममेत्यादि - रावणो नाथः प्रभुर्यस्याः मम विशेषणम् । युवयोर्भगिन्या अयं
तापसकात् कुतापसात् । कुत्सायां कन् । ध्वंसो नासिकाविनाशः । यादे वः
युष्माकं गुरूणां क्षमं युक्तम् क्षन्तुमित्यर्थात् । युष्मदि गुरावेकेषामिति बहुवचनं
तयोर्ज्येष्ठत्वात् । तर्हि क्षमध्वं उपेक्षध्वम् । रावण एव ज्ञास्यतीति भावः ॥
पुनरप्येजयितुमाह -
१७५-अ-संस्कृत्रिम-संव्यानाव॑नु॒ष्त्रिम-फलाशिनौ
॥
अ-भृत्रिम - परीवारौ पर्यभूतां तथापि माम् ॥ ३७॥
असमित्यादि – संस्कारेण वापेन भरणेन च निर्वृत्तं संस्कृत्रिमम् । उप्तिमं
भृत्रिमं च । '३२६६ । तिः क्लिः । ३।३।८८ । क्सेर्मम् नित्यम् । '२५५० । संप-
र्युपेस्यः—।६।१।१३७।' इति सुट् । सम्पूर्वस्य क्वचिदभूषणेऽपीष्यते । संस्कृत्रिमं