This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम- प्रवासो नाम चतुर्थः सर्ग:-
१६९ - तस्याः सासद्यमानाया लोलूया-वान् रघूत्तमः ॥
असं कौक्षेयमु॒द्यम्य चकारोऽप-नसं मुखम् ॥ ३१ ॥
तस्या इति – सासद्यमानाया: समीपे गर्हितं सीदन्त्याः प्रविशन्त्याः ।
'२६३५। लुप-सद-।३।१।२४॥ इत्यादिना यङ् । रघूत्तमो लक्ष्मणः । मुखमप-
नसमपगतनासिकं चकार । '८५८ । उपसर्गाच्च । ५।४।११९ ।' इत्यच् । नासिका च
नसादेशमापद्यते । तत्र संज्ञायामिति नानुवर्तते । किं कृत्वा । कौक्षेयमसिमुद्यम्य
उत्क्षिप्य । कुक्षौ भव इति '१४३३॥ इति - कुक्षि - ।४।३।५६ ।' इत्यादिना ढञ् ।
कौय: । लोलूयावान् अत्यर्थं लवनक्रियायुक्तः । लुनातीति लोलूया । यङन्ताद्
८३२७९। अप्रत्ययात् ।३।३।१०२।' इत्यकारः । सा विद्यते यस्येति मतुप् ॥
 
१७० - 'अहं शूर्पणखा नाम्ना
नूनं नो ऽज्ञायिषि त्वया, 11
दण्डो ऽयं क्षेत्रियो येन
 
मय्यपाती ति सा ऽब्रवीत् ॥ ३२ ॥
 
८१
 
अहमित्यादि-सा राक्षसीत्यब्रवीत् । अहं शूर्पणखेति नाम्ना नूनमवश्यं
त्वया नाज्ञायिपि न ज्ञातास्मि । ज्ञा इत्यस्मात्कर्मणि लुङ् । '२७५७ । स्य-सि-
।६।४॥६२।' इत्यादिना अजन्तत्वात् चिण्वदि । '२७६१ । आतो युक् ।७।३।३३।'
इति युक् । '५१०। स्वाङ्गाच्च - १४॥ १॥५४॥ इति ङीषि प्राप्ते ८५१४॥ नखमुखात्
संज्ञायां ।४।११५८॥ इति प्रतिषेधः । '८५७ । पूर्वपदात्संज्ञायां - 1८४।३।' इति
णत्वम् । अज्ञाने कारणमाह - येनायं दण्डो नासाच्छेदनलक्षणों मय्यपाति
पातितः । पातेः कर्मणि लुङ् । चिणादेशः । '२२८२ । अत उपधायाः ।७।२॥१६॥
इति वृद्धिः । '२३२९ । चिणो लुक् । ६।४।१०४ । क्षेत्रियः परक्षेत्रे चिकित्स्यः ।
परक्षेत्रे जन्मान्तरशरीरे यदि शक्यश्चिकित्सितुं तदा नासिकायाः सम्भवात् ।
१८९२ । क्षेत्रियच् परक्षेत्रे चिकित्स्यः ।५।२।१२।' इति निपातनम् ॥
१७१–पर्यशाप्सीद् दिवि-ष्ठा ऽसौ संदर्य भय-दं वपुः ॥
अपिस्फवच्च बन्धूनां निनङ्क्षुर् विक्रमं मुहुः ॥ ३३॥
 
पर्यशाप्सीदित्यादि - असौ राक्षसी पर्यशाप्सीत् आक्रुष्टवती । शपेरनिट:
सिचि हलन्तलक्षणा वृद्धिः । शप उपालम्भन इति तङ् न भवति । उपालम्भनं
हि वाचा शरीरस्पर्शनम् । दिविष्ठा नभसि वर्तमाना । १९७२ । तत्पुरुषे कृति
बहुलम् ।६।३।१४।' इति सप्तम्या अलुक् । ८२९१८ । अम्बाम्ब - ।८।३।९७ । '
इति षत्वम् । भयदं रौद्रं वपुः शरीरं संदर्य दर्शयित्वा । बन्धूनां विक्रमं शौर्य
मुहुः पुनः पुनः । अपिस्फवत् स्फीतीचकार । '२५७०१ अर्तिही- ।७।३।३६॥
इत्यादिना णावित्यनुवृत्तौ '२५९७॥ स्फायो वः ।७।३।४१।' इति वकारः । स्फाय-