2023-02-15 17:21:56 by ambuda-bot
This page has not been fully proofread.
भट्टि-काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थी वर्गः,
योगे कर्मणि षष्टी । धर्मसन्तानसूः पूर्ववत् विप् । धर्मरत इत्यर्थः । वने वर्त
मानानां मुनीनां वानप्रस्थादीनामित्यर्थः । तेषां भार्याग्निपरिग्रहात् यानि दार-
गवानि । दाराश्च गावश्चेति दारगवानि '९४५॥ अचतुर-१५॥४॥७७॥ इत्यादिना
निपातितानि । दारयन्तीति दाराः । 'दारजारौ कर्तरि णिलुक् च' इति वञ् ।
तेषां च येनाभयं सदा दत्तमिति योज्यम् । येषामेव प्राप्तिक्रिया तेषामेवाभय-
मिति समानकर्तृकत्वम् ॥
१६६ - ततो वावृत्यमाना ऽसौ राम शालां न्यविक्षत ॥ ॥
20
--
'मार्मुपायंस्त राम ति वदन्ती सऽऽदरं वचः ॥ २८ ॥
तत इत्यादि - ततो लक्ष्मणवचनानन्तरमसौ राक्षसी वावृत्यमाना रामं
वृण्वाना । '१२३५ । वा वृतु वरणे ।' इति देवादिकः आत्मनेपदी । रामशालां
रामस्य पर्णकुटीरं न्यविक्षत प्रविष्टा । विशे: '२३३६ । शल इगुपधादनिट: क्स:
।३।१।४५।' । '२६८३ । नेर्विशः ।१।३।१७।' इति तङ् । मामुपायंस्त रामेति हे
राम, अहं प्रार्थये भवान् मामुपायंस्त परिणयत्विति वाक्यभेदेन योज्यम् । '२७ -
९० । आशंसायां भूतवञ्च ।३।३।१३२।' इति लुङ् । '२७२९ । उपाद्यमः स्वकरणे
।१।३।१६।' इति तङ् । '२७३० । विभापोपयमने ।१।२।१६ । इत्यकित्त्वपक्षे
रूपम् । इत्येवं वचः सादरं वदन्ती ॥
-
१६७ - 'अ-स्त्रीको ऽसवुहं स्त्री मान्, स पुष्यतितरां तव ॥
पतिरि॑ित्यब्रवीद् रामस्- 'तमे॑व व्रज, मा मुचः ॥ २९ ॥
अस्त्रीत्यादि - असौ लक्ष्मणोऽस्त्रीकः । न विद्यते अस्य स्त्रीति । '८३३।
नघृतश्च ॥५॥४।१५३।' इति कप् । '८३५३ न कपि १७/४/१४' इति इस्त्रप्रतिषे
धः । अहं पुनः स्त्रीमान् सभार्य: । प्रशंसायां मतुप् । स एव लक्ष्मणः । पुष्य
तितराम् अतीव पुष्यति लक्ष्मणस्तव पतिः । '२००२ । तिङच ।५।३।५६ । इति
तरप् । '२००४ । किमेत्ति-।५।४।११।' इत्याम् । तस्मात्तमेव लक्ष्मणं व्रज गच्छ ।
मा मुचः मा त्याक्षी: । मुचेर्लङ् । हृदित्वादङ् । इति एवमब्रवीद्रामः उक्त-
वान् । आदादिकस्य ब्रूजो लङि '२४५२। ब्रुव ईट् ।७।३।९३ ।' इति ईटि रूपम् ॥
१६८ - लक्ष्मण सा वृषस्यन्ती महोक्षं गौरि॑िवो ऽगमत् ॥
मन्मथाऽऽयुध-सम्पात-व्यथ्यमान - मतिः पुनः ॥३०॥
लक्ष्मणमित्यादि – लक्ष्मणं पुनर्भूयोऽगमत् लक्ष्मणं प्रति गता । यथा
गौर्वृषस्यन्ती मैथुनेच्छावती महोक्षं महावृषम् । वृषस्यन्तीत्युपमान विशेषणमे
तत् । तेन वृषं लब्धुमिच्छन्तीति क्यचू । '२६६९। अश्व-क्षीर – १७११॥५१॥
इत्यादिना असुक् । तच्यश्ववृषयो मैंथुनेच्छायामिति । तद्वदागमत् । महोक्ष
मिति
१९४५॥ अचतुर–।५।४।७७१' इत्यादिसूत्रेण निपातितम् । मन्मथस्वायुधानि शराः ।
आयुध्यन्ते एभिरित्यायुधानि । घनर्थे कविधानमिति कः । तेषां सम्पातः
संमः । तस्मात् व्यथ्यमाना पीढ्यमाना मतिर्मनो यस्याः ॥