2023-02-15 17:21:56 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः-
M
॥ २४ ॥
१६२ - राघवं पर्ण-शालायामि॑च्छा ऽनुरहसं पतिम् ॥
यः स्वामी मम कान्ता-वानौपकार्णक-लोचनः
राघवमित्यादि - रामं पर्णशालायामवस्थितं पतिमिच्छ । अनुरहसं विवेक-
प्राप्तमनुगतो रह इति विगृह्य '९४९ अन्ववतप्ताद्रहसः ।५।४।८१॥ इत्यच् । यो
राघवो ममापि स्वामी प्रभुः । '२९३२ । स्वामिन्नैश्वर्ये ।५।२।१२६ ।' इति निपाति-
तम् । कान्तावान् सभार्यः । प्रवृत्तसम्भोगोऽसौ नाहमिति दर्शयति । तमेव रूप-
शौर्याभ्यां वर्णयन्नाह - औपकर्णिकलोचनः । कर्णयोः समीपमुपकर्णम् । समीपार्थे-
ऽव्ययीभावः । तत्र प्रायभव इति । '१४१५॥ उपजानूपकर्णोपनीवेष्ठक् । ४ । ३ ।
४० ।' शेषमपि शब्दद्वयं प्रयोक्ष्यते । औपकर्णिके लोचने यस्य । कर्णान्तायतलो-
चन इत्यर्थः ॥
,
-
१६३ - वपुश् चान्दनिकं यस्य, कार्णवेष्टकिकं मुखम् ॥
संग्रामे सर्व कर्मीणौ पाणी यस्यौपजानुकौ ॥ २५ ॥
वपुरित्यादि- - यस्य राघवस्य वपुः शरीरं चान्दनिकं चन्दनेन सम्पद्यते प्राप्त-
शोभं भवति । मुखं च कार्णवेष्टकिकम् । कर्णवेष्टकाभ्यां कर्णालङ्काराभ्यां कार्णवेष्ट-
किकम् । तन्नोभयत्र १७६३ । सम्पादिनि ।५।१।१९९१ । इति ठक् । पाणी हस्तौ
संग्रामे युद्धे सर्वकर्मीणौ धनुःखमा दिव्यापारकर्माणि व्याभुतः । १८०८ । तत्स-
देः- ।५।२।७।' इति खः । औपजानुकौ आजानुकौ । आजानुलम्बावित्यर्थः ।
अन्र ठक् । १२२१ । इसुसुक्तान्तात्कः ।७।३।५१॥ ॥
१६४ - बद्धो दुर्बल- रक्षाऽर्थम॑सिर् येनोपनीविकः ॥
यश् चापमा॑श्मन-प्रख्यं सेषु॑ धत्तेऽन्य दुर्वहम् ॥२६॥
बद्ध इत्यादि —– येन असिः खड्गः औपनीविकः । नीविसमीपे प्रायेण भव -
तीति । स हि नीवीं प्राप्य वर्तमानः पार्श्वयोश्चोर्ध्वं निबद्धः । किमर्थ-दुर्बलर-
क्षार्थं दुर्बलरक्षायै इदमित्यस्मिन्नर्थे चतुर्थी । तदर्थेत्यादिना सः । तत्रार्थेन नित्य-
समासः सर्वलिङ्गता च । यश्चापं धनुर्धत्ते धारयति । आइमनप्रख्यम् । अश्मनो
विकार इत्यण् । '११५५॥ अन् ।६।४।१६७१' इति प्रकृतिभावे प्राप्ते अइमनो
विकार उपसङ्ख्यानमिति टिलोपः पाक्षिकः । विभाषर्जोरित्यतो मण्डूकडत्या
विभाषाग्रहणानुवृत्तेर्विकारे वाच्ये । अन्यत्राश्मन एव भवति । आश्मनेन प्रख्या
सादृश्यमस्य तदाश्मनप्रख्यमुपलघटितमिव । सेपुं सशरम् । अन्यदुर्वहं दुःखेनो-
ह्यत इति खल । रामादन्येन दुर्वहमित्यर्थः ॥
१६५ जेता यज्ञ द्रुहां संख्ये धर्म-सन्तान - सूर् वने ॥
प्राप्य दार - गवानां यं मुनीनाम॑ भयं सदा ॥ २७ ॥
जेतेत्यादि-यज्ञाय दुह्यन्तीति यज्ञद्रुहो राक्षसाः । ८२९७५१ सत्सूद्विष-
१३।२।६१॥ इत्यादिना किप् । तेषां संग्रामे जेता । तृजन्तोऽयम् । ततश्च कृत्प्र-