2023-02-15 17:21:56 by ambuda-bot
This page has not been fully proofread.
भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थी वर्गः,
अर्तेः 'सूचि-सूत्रि-' इत्यादिना यङ् । '२६३३ । यङि च ।७।४।३०' इति गुणः ।
'२४४६ । नन्द्राः ।६।१।३।' इति प्रतिषेधस्य प्रतिषेधो यकारपरस्य न द्वित्वनि-
पेध इति रेफो द्विरुच्यते । भयशीला भीरुः । '३१५४ । भियः क्रुकुकनौ ।३।२।श
१७४।' क्रियाशब्दत्वात् '४२१॥ ऊङुतः ।४।१।६६।' इति ऊ न भवति । अम-
नुष्यत्वाच्च । तथाहि लक्ष्मणेनामानुपीयमिति ज्ञाता । तथाच भङ्ख्या दर्शय-
नाह - असूर्यम्पश्यरूपा । अतिगोपनीयतया सूर्यमप्यनिषिद्धदर्शनं न पश्य-
नीति । '२९५१॥ अ-सूर्य- ललाटयोः - ।३।२।३६।' इत्यादिना खश् । '२३६०। पा-
त्रा ।७।३।७८।' इत्यादिना पश्यादेशः । असूर्यम्पश्यं रूपं यस्या इति समासः ।
सा न पश्यतीति रूपमपि न पश्यतीत्युक्तम् ॥
७८
१६० - मानुषानु॑भिलप्यन्ती रोचिष्णुर् दिव्य-धर्मिणी ॥
त्वम॑प्सरायमाणैह स्वतन्त्रा कथर्मञ्चसि ॥ २२ ॥
मानुषानित्यादि- मनोरपत्यानि मानुषाः । ११८५ । मनोजतावञ्यतौ
धुक् च ।४।१।१६१।' तानभिलप्यन्ती कामयन्ती रन्तुमिच्छन्ती । '२३२११ वा
आाश । ३ । १॥७०' इत्यादिना श्यन् । रोचिष्णु: रोचनस्वभावा । '२११६) अलं-
कृञ्- ।३।२।१३६।' इत्यादिना इष्णुच् । अत एव दिव्यधर्मिणी । दिवि भा
दिव्या देवाः । राक्षसा अपि देवयोनित्वात् । तेषां धर्मः स्वभावः सोऽस्या अम्ती-
ति । '१९३८ । धर्म-शील-।५।२।१३२।' इत्यादिनेनिः । अप्सरायमाणा अप्सरा
इवाचरन्ती । राक्षसभावं गोप्नुमिति भावः । 'उपमानादाचारे' इत्यधिकारे
'२६६५। कर्तुः क्यङ् स-लोपश्च ।३।१।११।' 'ओजसोऽप्सरसो नित्यम्' इति वच-
नात् । इह बने स्वतन्त्रा कथमञ्चसि भ्रमसि । स्व आत्मा तन्त्रः प्रधानं यस्याः ।
अपराधीनत्वात् । अनयोक्त्या राक्षसीत्वं दर्शयति ।
१६१ - उग्रं पश्या॒ऽऽकुले करण्ये शालीन-त्व- विवर्जिता ॥
कामुक प्रार्थना-पट्टी पतिवत्नी कथं न वा ॥ २३ ॥
उग्रमित्यादि — उग्रम्पश्यन्तीत्युग्रम्पश्याः । पापाशयत्वान् शबरादयः 1
२९५२ । उग्रम्पश्य । ३।२।३७।' इत्यादिना खश निपात्यते । तैराकुले व्याप्ते
अरण्ये । पतिवली जीवत्पतिः कथं केन प्रकारेण न वा नैवं भवसीत्यर्थ: । '४८९॥
अन्तर्वत्पतिवतोर्नुक् ।४।१॥३२।' इत्यत्र पतिर्विद्यते अस्या इति मतुप् सिद्धः ।
जीवत्पत्यां मतुपो यत्वं निपात्यते । नुक् सूत्रेणैव विधीयते । ङीप्प्रत्ययस्तूगिवा-
देव सिद्धः । शालीनत्वविवर्जिता । अधृष्टतया वर्जिता । शालाप्रवेशमर्हतीति
'१८२१। शालीन-कौपीने - ।५।२।२०।' इति खञ् निपात्यते । अधृष्टेऽभिधेये प्रवेश-
शब्दस्य लोपः । तस्य भावः शालीनत्वम् । कामुकः कामशीलः । '३१३४॥
लष-पत—।३।२।१५४।' इत्यादिना उकञ् । तस्य प्रार्थनायां पट्टी चतुरा । '५०२॥
वोतो
'गुणवचनात् ।४।१।४४ ॥ इति ङीप् ॥