This page has not been fully proofread.

भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
कर्णमूलसमीपमित्यर्थः । '१८२५ । तस्य पाकमूल ।५।२।२४।' इत्यादिना जाहच् ।
कर्णजाहयोर्विश्रान्ते विलोचने यस्या इति सप्तम्युपमानेत्यादिना उपपदलोपी बहु-
व्रीहिः । वाक्त्वचेन याक् च त्वक् चेति प्राण्यङ्गत्वादेकवद्भावः । '९३०। द्वन्द्वाचु-
द-ष-हान्तात् - 1५।४।१०६।' इति ट्च् । अतिसर्वेण अतिक्रान्तेन सर्वम् । अत्यादय
इति समासः । '६५५ । एकविभक्ति चापूर्वनिपाते । १॥२॥४४॥ इति सर्वेशब्दस्योप-
सर्जनत्वेऽपि पूर्वनिपातो न भवति अपूर्वनिपात इति प्रतिषेधात् । वाक्त्वचेन
वाङ्मयेन माधुर्येण मार्दवेन चासाधारणेनोपलक्षितेनत्यर्थः । इत्यम्भूते तृतीया ।
चन्द्रलेखेव पक्षतौ तनुत्वात् । पक्षोऽत्रार्धमासः । तस्य मूले प्रतिपदि । १८२६ ।
पक्षात्तिः ।५।२।२५॥ ॥
 
१५५ - सुपाद् द्वि-रद-नासोरूर् मृदु-पाणि-तलाऽङ्गुलिः ॥
प्रथिमानं दधानेन जघनेन घनेन सा ॥ ३७ ॥
 
सुपादित्यादि – शोभनौ पादौ यस्याः असौ सुपात् । १८७९। सङ्ख्यासुपू
वस्य ।५।४।१४०।' इति पादान्तलोपः '४५७ । पादोऽन्यतरस्यां ।४।११८।' इति
यदा ङीप् नास्ति तदेत्थं रूपम् । द्विरदनासोरुदिनासे इब करिपोतकराविव
ऊरू यस्याः । उपमानपूर्वो बहुव्रीहिः । '५२४ । ऊरूत्तरपदा दौपम्ये ।४।११६९।१
इति ऊङ् । रद्यते अनेनेति रदः दन्तः । '३२९६ । पुंसि संज्ञायां घः । ३।३।११८।'
करणे । द्वौ रदौ यस्येति द्विरदः । मृदुपाणितलाङ्गुलिः । तलं च अङ्गुलिश्चेति द्वन्द्वः ।
तत्र ध्यन्ताल्पाच्तरयोः अल्पाचूतरस्य पूर्वनिपातः । पाण्योस्तलाङ्गुलि पाणितला-
जुलि । मृदु पाणितलाङ्गुलि यस्य इति योज्यम् । अथिमानं पृथुतां दुधानेन
धारयता । धनेन उपचितेन जघनेनोपलक्षिता सा राक्षसी ॥
 
१५६ - उन्-नसं दधती वक्रं शुद्ध-दल-लोल-कुण्डलम् ॥
 
कुर्वाणा पश्यतः शंयून् स्रग्विणी सु-हसाऽऽनना ॥१८॥
उन्नसमित्यादि — उच्यते अनेनेति वक्रम् । सर्वधातुभ्य औणादिकः ट्रन्
तत्र वक्रशब्दो मुखैकदेशे वर्तमानोऽपि कविभिः समुदाये प्रयुज्यते । वॐ मुख-
मुन्नसं दधती । '४२७॥ नाभ्यस्ताच्छतुः ॥७॥१॥७८।' इति नुम् न भवति । उन्नता
नासिका यस्मिन्निति । अञ्नासिकायाः संज्ञायां नसं चेत्यधिकृत्य '८५८। उपम-
र्गाच्च ।५।४।११९॥' इत्यच् । नासिका च नसादेशमापद्यते । शुद्धत् शुद्धाः शुक्ला
दन्ता यस्तच्छुत् '८८३ । अग्रान्तशुद्ध ।५।४।१४५।' इत्यादिना ददादेशः ।
लोले चञ्चले कुण्डले यस्मिन् तत् लोलकुण्डलम् । पश्यतो जनान् शंयून् विद्य-
• मानसुखान् कुर्वाणा शं सुखं तदस्यास्तीति । '१९४४ । कं-शंभ्यां ब-भ-युस्ति-
तु-त-यसः ।५।२।१३८ ।' इति युस् । सित्वात्पदसंज्ञा । अनुस्वारः । अपश्यतो वा
शंबून् कुर्वाणा पश्यतां तु पीडाकरी । स्रग्विणी मालावती । ५९२८। अस्माया-
१५।२।१२१॥ इत्यादिना विनिः । सुहसानना हसनं हसः । '३२३९। स्वन-ह-
सोर्चा ।३।३।६२।' इत्यप् । शोभनहसनमाननं यस्याः सा ॥