This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः-
-
 
७५
 
आतीत्यादि - जपन्मन्त्रमिति सामर्थ्यलभ्यम् । सन्ध्याकालोऽधिकरणम् ।
तेन अत्यन्तसंयोगे द्वितीया । सम्यक् ध्यायन्त्यस्यामिति । '३२८३ । आतश्लो-
पसर्गे ।३।३।१०६ ।' इत्यङ् । किमवधिं सन्ध्यामित्याह - प्रक्रान्तमायतीगवम् ।
आयत्या आयान्त्यो भवन्ति यस्मिन् काले गावः अस्मिन्नायतीगवं आरब्धाम् ।
'६७१ । तिष्ठद्दु प्रभृतीनि - ।२।१।१७।' इत्यव्ययीभाव समासत्वात्साधुः । '६५७
नाव्ययीभावात् ।२।४।८३।' इति सप्तम्या अम्भाव: । आङ्पूर्वादिणः शतारे
'२४५५ । इणो यण् ॥६॥४।८॥ इति यणि ङीपि च रूपं आयतीति । गावोऽपि
गोचरात् गोष्ठमायान्ति दिवसस्यार्धनाडिकावशेषे सन्ध्यापि तदैव प्रवर्तते ।
कियन्तमेवं जपन्नित्याह- आतिष्ठद्गु इति । तिष्ठन्ति गावो यस्मिन् काले दोहाय ।
गावो हि रात्रिप्रथमयामस्य नाडिकायामतीतायां विश्रान्ताः सत्यः उत्थाप्य
दुह्यन्ते । आतिष्ठदिति '६६७ । आङ् मर्यादाभिविध्योः ।२।१।१३।' इत्यव्ययी-
भावः । '६७१ । तिष्ठदु-प्रभृतीनि च ।२।१।१७।' इति चकारस्यानुक्तसमुच्चयार्थ-
त्वाद्रव्ययीभाव एव । पुनः समासान्तरं न भवति । प्रातस्तरामिति । प्रातरित्य-
व्ययं प्रभातवाचि । प्रकर्षविवक्षायां तरम् । तदन्तात् '२००४ । किमेत् - १५/४।११॥'
इत्यादिना आम् अतिप्रभाते । पतत्रिभ्यः कुक्कुटादिभ्यः प्रथमं प्रबुद्ध उत्थितः ।
'६३९। पञ्चमी विभक्के ।२।३।४२।' इति पञ्चमी । रविमादित्यं प्रणमन् यदा
चरति तदा प्रियम्भावुकतामगादिति पूर्वेण योज्यम् ॥
 

 
१५३ - दहशे पर्ण- शालायां राक्षस्या ऽभीकया ऽथ सः ॥
 
13
 
भायो॒ तम॑वज्ञाय॒ तस्थे सौमित्रयेऽसकौ ॥ १५ ॥
दहश इत्यादि - पर्णानां शालायां स्थितः स रामः राक्षस्या ददृशे दृष्टः ।
कीदृश्या । अभीकया कामुक्या । ११८७४ अनुकाऽभिका- ।५।२।७४ ।' इत्यादिना
निपातितः । दृशेः कर्मणि लिट् । अथ दर्शनानन्तरं भार्योढं ऊढभार्यमूढा भार्या
यस्येति । आहिताम्यादिषु दर्शनात् निष्ठान्तस्य परनिपातः । अवज्ञाय अनादृत्य ।
सद्भार्यत्वात् । असकौ राक्षसी पापासौ । कुत्सायां '२०२५॥ अध्यय-सर्वनाम्ना-
मकच्-।५।३।७१।' सौमित्रये लक्ष्मणाय । '५३२ । लाघ-हुई-।१।४।३४।' इत्यादिना
सम्प्रदानसंज्ञा । तस्थे स्वाभिप्रायं मैथुनायाविष्कृतवती । '२६९० । प्रकाशन-
स्थेयाख्ययोश्च ।१।३।२३।' इति प्रकाशने तङ् ॥
 
कलापेकम् (8) -
 
१५४ - दधाना वलिभं मध्यं कर्ण-जाह-विलोचना ॥
 
-
 
वाक्-त्वचेनाऽति-सर्वेण चन्द्र लेखेव पक्षतौ ॥ १६ ॥
द्धानेत्यादि — सा तं प्रार्थयाञ्चक इति वक्ष्यमाणेन सम्बन्धः । कीदृशी ।
मध्यं स्तनजधनयोरन्तरम् । वलिभं वलयोऽस्मिन् सन्तीति । १९४५॥ तुन्दि-
वलि-वटेभः ।५।२।१३९।' दधाना धारयन्ती । कर्णजाहविलोचना । कर्णजाहं
 
१ – (१४८) श्लोकोक्तं टीकनं प्रेक्ष्यम् ।