2023-02-15 17:21:55 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः-
१४७ - ऋग्- यजुषम॑धीयानान् सामान्यांश्च समर्चयन् ॥
बुभुजे दैव-सात् - कृत्वा शूल्यमुख्यं च होम-वान् ॥९॥
ऋग्यजुषमित्यादि — ऋक् च यजुश्च ऋग्यजुषम् । ८९४५। अचतुर–
१५॥४॥७७१' इत्यादिना निपातितम् । '९३० । द्वन्द्वाच्चु -द-ष-हाऽन्तात् समाहारे
।५।४।१०६।' इति टच् । ऋग्वेदं यजुर्वेदं च अधीयानान् पठतः । इङोऽधि-
पूर्वस्य लटि शानचि रूपम् । '६२७ । न लोक ।२।३।६९ ॥ इति षष्टीप्रतिषेधः ।
सामान्यांश्च सामसु साधून् द्विजान् । '१६५० । तत्र साधुः ।४।४।१८।' इति यत् ।
'११५४ । ये चाभावकर्मणोः । ६।४।१६८।' इति प्रकृतिभावः । समर्चयन् पूजयन् ।
शूल्यमुख्यं च मांसं बुभुजे भुक्तवान् । झूले उखायां च स्थाल्यां संस्कृतम्
'५२१८ । शूलोखाद्यत् ।४।२।१७॥ २७३७॥ भुजोऽनवने ।१।३।६६।' इति
तङ् । किं कृत्वा - देवसात्कृत्वा देवेभ्यो दत्वा । तदधीनं कृत्वा । '२१२४ । देये
त्रा च । ५/४/५५।' इति चकारात् सातिश्च । होमवान् होमो विद्यते यस्येति ।
कृताग्निकार्य इत्यर्थः ॥
७३
युग्मम् ( २ ) -
१४८ - वसानस् तन्त्रक - निभे सर्वाङ्गीणे तरु-त्वचा ॥
काण्डीरः खाङ्गिकः शाङ्क रक्षन् विप्रांस्त॑नुत्र-वान् १०
वसान इत्यादि — असौ रामो वनेष्वानभ्र भ्रान्तवानिति वक्ष्यमाणेन
लोकेन सम्बन्धः । वसानः परिधानः । १०९२ । वसँ आच्छादने ।' इत्यस्मात्
शानच् । तरुत्वचौ वल्कले प्रत्यग्रे । तत्रकः '१८७० । तन्त्रादचिरापहृते ॥५॥२॥
७० ।' इति कन् । तन्निभे तत्तुल्ये । सर्वाङ्गीणे सर्वाङ्गाणि व्याप्नुवत्यौ । '१८०८
तत्सर्व-।५।२।७।' इत्यादिना खः । काण्डीर: काण्डोऽस्यास्तीति । १९१८।
काण्डाण्डादी रन्नीरचौ ।५।२।१११११ । खाङ्गिकः खड्गोऽस्यास्तीति । '१९२२ । अत
इनिठनौ ।५।२।११५।' खाङ्गिक इति पाठान्तरम् । तत्र खड्गः । १६०७ प्रहरणं
।४।४।५७१' इति ठक् । शाङ्ग सधनुः । तनुत्रवान् तनुं शरीरं त्रायत इति तनु-
त्रम् । '२९१५ । आतोऽनुपसर्गे कः । ३।२।३।' इति संसर्गे मतुप् । पिनद्धकवच
इत्यर्थः । स एवंविधो विप्रान् ब्राह्मणान् रक्षन् ॥
१४९–हित्वाऽऽशितङ्गवीनानि फलैर् येष्वशितम्भवम् ॥
तेष्व॑सौ दन्दशूऽरिर् वनेष्वा॑नत्र निर्भयः ॥ ११ ॥
हित्वेत्यादि — आशितास्तृप्ता गावो येषु भवन्ति तृणप्रायत्वात् । २०७१।
अपडक्षा - 1५॥४॥७॥' इत्यादिसूत्रेण खः पूर्वपदस्य च मान्तत्वं निपात्यते । तान्य-
रण्यानि हिरवा येषु वनेषु फलैराशितम्भवमाशितस्य भवनं तृप्तिर्वर्तते ।
१ - 'द्वाभ्यां युग्ममिति प्रोक्तं, त्रिभिः श्लोकैर् विशेषकम् ॥
कलापकं चतुर्भिः स्यात् तदूर्ध्वं कुलकं स्मृतम् ॥ १ ॥
भ. का. ७