2023-02-15 17:21:55 by ambuda-bot
This page has not been fully proofread.
७२ भट्ट- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थी वर्गः,
आमि लुभावे द्विवचनम् । किं कृत्वेत्याह- प्रदिश्य कथयित्वा । किम्-आरात्
समीपे सुतीक्ष्णनानो मुनेः केतनं आश्रमम् । तत्र वासमुपकल्पयेति ॥
तब किमत्रावस्थानमिति चेदाह --
१४४ - यूयं समैष्ययै॒त्य॑स्मि-
नासिष्महि वयं वने, ॥
P
-
दृष्टाः स्थ, स्वस्ति वो, यामः
स्व-पुण्य - विजितां गतिम् ॥ ६ ॥
यूयमित्यादि – अपि नाम यूयं समैप्यथ आगमिष्यथ । आङ्पूर्व इण् आगमने
वर्तते । '७३ । एत्येवत्यू । ६।१।८९।' इति वृद्धिः । इत्यस्मास्कारणात् । अस्मिन्वने
वयमासिष्महि स्थिताः । असेलुंङि रूपम् । '८१८ । अस्मदो द्वयोश्च ॥२।५९ ।
इति चकारस्यानुनसमुच्चयत्वादेकत्वे बहुवचनम् । अस्मदागमने किं ते फलामे-
ति चेदाह - दृष्टाः स्थ अधुना दृष्टा भवथ । अस्तेर्मध्यमपुरुपबहुवचने '२४६९॥
श्वसोरल्लोपः ।६।४।११।' इत्यकारलोपः । स्वस्ति कल्याणम् । वः युष्मभ्यम् ।
नमः- स्वस्ति ।२।३।१६।' इत्यादिना चतुर्थी । '४०५ । बहुवचनस्य वस्त्रसौ 1८।३
।२१॥ स्वपुण्येन विजितां लब्धां गतिं जन्म । यामः व्रजामः । रामरूपेण वि-
ष्णुरवतीर्णः तं दृष्ट्वा यास्याम इत्यत्र वयं स्थिता इति ॥
८५८३३
१४५ - तस्मिन् कृशानु-सा भूते सुतीक्ष्ण-मुनि-सन्निधौ ॥
उवास पर्ण-शालायां भ्रमन्न॑निशर्माऽऽश्रमान् ॥७॥
तस्मिन्नित्यादि — तस्मिन् शरभने कृशानुसाते कार्येनाशीभृते । '२१-
२२ । विभाषा साति का ।५।४।५२॥ इति सातिः । रामः सुतीक्ष्णस्य मुनेः
सन्निधौ समीपे पर्णशालायां पर्णकुट्यामुवास उपितवान् । तत्र कृताधिवासस्य
वृत्तिमाह - भ्रमन्ननिशमाश्रमान् पर्यटन् सदा तपोवनानि मुनीन् उपासिनुम् ॥
१४६ - वनेषु वासतेयेषु निवसन् पर्ण-संस्तरः ॥
-
शय्योत्थायं मृगान् विध्यन्नतिथेयो विचक्रमे ॥ ८ ॥
वनेष्वित्यादि – वासतेयेषु वसतौ साधुपु । '१६५६ । पथ्यतिथि-
।४।४।१०४।' इत्यादिना ढज् । निवसन् शयानः । संस्तीयंत इति संस्तरः ।
'३२३२। 'ऋोरप् ।३।३।६७ ॥ पर्णानि संस्तरो यस्येति पर्णसंस्तरः । शय्योत्थायं
शय्याया उत्थाय । उत्पूर्वात्तिष्ठतेः । '३३७३ । अपादाने परीप्सायां ।३।४।१२।
इति णमुल । शय्यते अस्यामिति शय्या । ' ३२७६ । संज्ञायां ॥३।३।९९१ ।' इत्यादिना
क्यप् । त्वरया मुखधावनादीन्यपि न कृत्वा । मृगान्विध्यन् ताडयन् । '२४१२॥
ग्रहि·ज्या–६।१।१६।' इत्यादिना सम्प्रसारणम् । तत्रापि नारमार्थ लुब्ध इत्याह
-आतिथेयः अतिथौ साधुः । पूर्ववत् ढञ् । विचक्रमे विहरति स्म । '२७१४॥ वेः
विहरणे ।१।३।४-१॥ इति तङ् ॥