2023-02-15 17:21:55 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः-
अरण्यमभूत् । तदीयिवान् गतवान् । '३०९८ । उपेयिवान् ।३।२।१०९ ।' इत्यत्र
उपसर्गस्यातन्त्रत्वात्केवलादपीण: वसुः ॥
१४० - अटाट्यमानो ऽरण्यानीं स-सीतः सह-लक्ष्मणः ॥
वलाद् बुभुक्षुणौत्क्षिप्य जो भीमेन रक्षसा ॥ २॥
अटाट्येत्यादि-महदरण्यमरण्यानी । '५०५॥ इन्द्र वरुण - ।४।१।४९ । '
इत्यादिना हिमारण्ययोर्महवे ङीपानुकौ । तां अटाट्यमानः अत्यर्थमटन् रामः ।
'सूचि - सूत्रि- ' इत्यादिना यङ् । ससीतः सहलक्ष्मणः १८४९। वोपसर्जनस्य
।५।३॥८२ ।' इति विकल्पेन सभावः । बलात् बलवत्तया जहे हृतः । गृहीन
इत्यर्थः । कर्मणि लिट् । उत्क्षिप्य उत्थाप्य हस्ताभ्यां केनापि रक्षसा । वैश्रवण-
शापात् तुम्बुरुनाम्ना गन्धर्वेण राक्षसीभूतेन विराधाख्येन बुभुक्षुणा भोक्तुमिच्छु-
ना । भीमेन भयानकेन । 'भियः पुक्' इत्यौणादिकपुगभावपक्षे रूपम् ॥
१४१ - अवाक् - शिरसमुत्पाद
कृ॒तान्तेना॑ ऽपि दुर्-मम् ॥
भङ्क्त्वा भुजौ विराधऽऽख्यं
तं तौ भुवि निचनतुः ॥ ३ ॥
अवागित्यादि – तं विराधाख्यं राक्षसम् । कृतान्तेनापि यमेनापि । दुर्दम
दुःखेन दम्यत इति खल । तौ रामलक्ष्मणौ भुवि निचरखतुर्निखातवन्तौ ।
कीदृशम् । अवाशिरसं अवाक् शिरो यस्येति अधोमस्तकम् । ऊर्ध्वं पादौ यस्येति
उत्पादम् । भुजौ भङ्क्त्वा मोटयित्वा । '३।३३० । जान्त-नशां विभाषा ६४
३२।' इत्यनुनासिकलोपाभावपक्षे रूपम् ॥
१४२ - आंहिषातां रघु-व्याघ्रौ शरभऽऽश्रमं ततः ॥
अध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम् ॥४॥
आंहीत्यादि — ततो विराधवधानन्तरं रघुव्याघ्रौ शरभङ्गनाम्नो सुनेराश्रमम्
आंहिषातां गतवन्तौ । अहेर्लुङि रूपम् । अध्यासितं आश्रयीकृतम् । श्रिया
लक्ष्म्या । ब्राह्म्या ब्रह्मसम्बन्धिन्या । ब्रह्मण इयमित्यण् । '११५८। ब्राह्मोऽजातो
।६।४।१७१।' इति निपातनात् टिलोपः । '४७० । टिड्ढाणञ्- ।४।१।१५।' इत्या
दिना ङीप् । शरणे अवस्थाने साधु अनुकूलं शरण्यम् । १६५० । तन्त्र साधुः
।४।४।१८।' इति यत् । शरणैषिणां शरणं त्राणमेषितुं शीलं येषाम् ॥
१४३ - पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः ॥
शरभङ्गः प्रदिश्या॑ssरात् सुतीक्ष्ण-मुनि- केतनम् ॥५॥
पुर इत्यादि — शरभङ्गो रामस्य पुरः अग्रतः वपुः शरीरं ज्वलने अनौ
जुहवाञ्चकार कुष्टित्वात्तस्य । '२४९१॥ भी -ही-भृ-हुवां - ३॥१॥३९॥ ' इति आम्