This page has not been fully proofread.

भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
 
ऊर्जनमूर्क । संपदादित्वात् किप् । सा विद्यते यस्येति । १९२३॥ ज्योत्स्ना
मिस्रा – ।५।२।११४।' इत्यादिना वलच् । असुगागमश्च । अमूनि च रखानि राज
भाञ्जि राजगृह्याणि । एतच्च राजन्यकं क्षत्रियसमूहः । क्षितीन्द्रो राजा अः
त्वयि स्थिते स्यामिति भवामीति शान्तमेतत् । स्यामिति निमन्त्रणे नियोगक
रणे लिङ् ।
 
vo
 
१३८ - इति निगदितवन्तं राघवस् तं जगाद -
'व्रज भरत ! गृहीत्वा पादुके त्वं मदीये, ॥
च्युत - निखिल विशङ्कः पूज्यमानो जनौघैः
सकल-भुवन राज्यं कारया॑ ऽस्मन्- मतेन', ॥५६॥
इतीत्यादि — इति एवं निगदितवन्तं उक्तवन्तं तं भरतं राघवो रामो जगाद
उक्तवान् । किमित्याह–हे भरत ! मदीये पादुके उपानहौ गृहीत्वा त्वं व्रज गच्छ ।
विधौ लोट् । अस्मदस्त्यदादित्वे '१३३६ । त्यदादीनि च ।१।१।७४ । इति वृद्ध-
संज्ञायां तस्येदमर्थे ' १३३७। वृद्धाच्छः ।४।२।११४।' '१३७३ । प्रत्ययोत्तरपदयोश्च
।७।२।१८।' इति मदादेशः । ततश्च पूज्यमानो जनौवैर्जनसमूहैः । च्युत निखि-
लविशङ्कः अपगताशेषविकल्पः । सकलभुवनराज्यं सर्वत्र भूमण्डले राज्यं
कारय अनुष्टापय । पाटुके इति योज्यम् । अस्मन्मतेन अस्माकमभिप्रायेण ।
अत्र मदादेशो न भवति अस्मदो बहुवचनान्तस्य विवक्षितत्वात् । तत्र
ह्येकवचन इति वर्तते । ननु कथं मदीय इत्यत्र मदादेशः बहुवचनान्तत्वादिति
जिरोधः । पादुके रामस्यैव तर्ह्यस्मन्मतेन इत्यत्रापि एकवचनम् । आवयो
रामलक्ष्मणयोर्मतेनेति पष्टीसमासे न दोपः ॥
 
इति श्री जयमङ्गलाऽऽख्यचा व्याख्यया समलंकृते श्री भट्टिकाव्ये -
प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयः परिच्छेदः ( वर्गः ),
तथा लक्ष्य रूपे कथानके श्री राम - प्रवासो नाम
तृतीयः सर्गः पर्यवसितः ।
 
चतुर्थः सर्गः-
१३९ - निवृत्ते भरते धी- मानु॑त्रे रामस् तपोवनम् ॥
 
प्रपेदे, पूजितस् तस्मिन् दण्डकारण्यमयिवान् ॥ १॥
निवृत्त इत्यादि — धीमान् बुद्धिमान् अत्र स्थिते मयि कदाचिद्भरतः
पुनरेव्यतीत्येवं बुद्धिमान् रामः अत्रेर्महर्षेस्तपोवनं प्रपेदे गतः । तस्मिंश्च तपोवने
अर्घ्यपाद्यादिभिः पूजितः । दाण्डक्यो नाम भोजो भार्गवकन्यामहरत् । तच्छा-
पात् पांसुवर्षेणाकान्तः सबन्धुराष्ट्रविनाशो यस्मिन् स्थाने तत्वोपलक्षितम्
१ - मालिनी च्छन्दः । तलक्षणे, (२६) श्लोकोक्तं टीकनं प्रेक्ष्यम् ।