This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके राम- प्रवासो नाम तृतीयः सर्गः -
 
च मयि स्थिते नेशिषे न प्रभुत्वं करोषि । प्रभुस्त्वमहं स्वदाज्ञाकर इति । ईशेरा-
दादिकस्य '२४३९ । ईश: से ।७।२।७७१' इतीडागमः । गुरुवचनमनतिक्रमणीयं
विशेषतस्तातवाक्यं तस्मिन्नतिष्टन् वचनमकुर्वाण: यदि जिहेषि लजसे । '२४९० ।
लौ ।६।१।१०।' इति द्विवचनम् । एतनिश्चित्याह-जहीहि शङ्कां त्यज विक
ल्पम् । ब्रज गच्छ अयोध्याम् । शाधि पालय पृथ्वीम् । '२४९८ । जहातेश्च
१६।४।११६।' इति इत्वे विकल्पिते । '२४९७ । ई हल्योः ।६।४।११३ ।' इतीत्वम् ।
शासे: '२४८७ । शा हौ ।६॥४॥३५॥ इति शाभावः । तस्याभीयत्वेनासिद्धत्वात्
'२४ २५५ । हु-झल्भ्यो हेधिः ।६।४।१०१॥ ॥
 
१३६ - 'वृद्धौरसां राज्य- धुरां प्रवोढुं
कथं कनीयानहर्मुत्सहेय, ॥
 
6
 
मा मां प्रयुक्थाः कुल-कीर्ति-लोपे, '
ग्राह स्म रामं भरतोऽपि धर्म्यम् ॥ ५४ ॥
वृद्धौरसामित्यादि — भरतः प्राह । धूर्वहनशीला धूर्नयनशीला इत्यर्थः ।
अनेकार्थत्वाद्धातूनाम् ' ३१५७ । आज भास - । ३।२।१७७१' इति विप् । '२६५५ ।
राल्लोपः ॥६।४।२१।' इति वलोपः । राज्यस्य सप्ताङ्गस्य धूर्धात्री । प्रकृतिरिति
विगृह्य । '९४०। ऋक् पूः-/५/४/७४ ।' इत्यकारप्रत्ययः । ८१२ । परवलिङ्गं । २।
४।२६।' इति धूरिति स्त्रीलिङ्गम् । ततष्टाम् । कीदृशीम् । वृद्धौरसां वृद्धो ज्येष्ठः
औरसः पुत्रो यस्याम् । उरसा निर्मित इति छन्दसो निर्मित इत्यनुवृत्तौ १६४६ ।
उरसोऽण् च ॥४।४।१४।' इत्यण् । तां तिष्ठति रामे प्रवोढुं कथमुत्सहे । कनीयान्
सन् । नैवेत्यर्थः। '३१७७ । शक- ध्रुष-।३।४।६५ ।' इत्यादिना वहे: सहावुपपड़े
तुमुन् । गर्हायां लडपिजा वोरित्यनुवृत्तौ '२८०० । विभाषा कथमि लिङ् च
।३।३।१४३।' इति लिङ् । सहेरुत्पूर्वस्य आत्मनेपदित्वात् सीयुट् । '२२५७।
इटोऽत् । ३।४।१०६।' । '२३११ । लिङः सलोपोऽनन्त्यस्य ।७।२।७९१ । अतो मा
मां प्रयुक्थाः मा नियोजय । '२२१९ । माङि लुङ् ।३।३।१७५॥ २२८॥
झलो झलि ।८।२।२६।' इति सिचो लोपः । कुलकीर्तिलोपे । लोपयतीति लोपः
पचायच् । रघुवंशस्य या कीर्तिः तस्या लोप इति समासः । पूर्वैरनाचरितत्वात्
एवं च धर्म्यं धर्मादनपेतं भरतोऽपि प्राह स्म उक्तवान् ।
 
पुनश्चाह -
 
१३७ - 'ऊर्जस्वलं हस्ति-तुरङ्गमे॑तद्,
अमूनि रत्नानि च राज-भाञ्जि, ॥
राजन्यकं चैतदहं क्षितीन्द्रस्
 
त्वयि स्थिते स्यामि॑िति शान्तमेतत् ' ॥ ५५ ॥
ऊर्जेत्यादि-एतद्वस्तितुरङ्गम् । सेनाङ्गत्वादेकवद्भावः । ऊर्जस्वलं बलवत् ।