This page has not been fully proofread.

III. Text of Bharatakadvatrimsika.
 
4
 
तथापि मूर्खलेन भौतिको न वेत्ति स्म । मूर्खा ईदृशा भवंति ॥ इति
त्रिंशतमी कथा ॥ ॥ ३० ॥
 
यो येन बुध्यते कार्य तं तथा बोधयेद्बुधः ।
 
इं
 
दग्धकाकादिना भौता यथा विज्ञेन वारिताः ॥ १ 46
मरुस्थल्यां सोलोकग्रामे बहवो भौतिका वसंति स्म । एकदा ते
स्वचक्र पुरस्ताद्यजमानानां वंदापनाथ चलिताः । तैः सहक: सुविचार:
पंडितोपि चलितः । एवं तेषां मार्गे गच्छतां मध्याहं जातं । अतिबु-
भुक्षितैभतिकैः सर्वतो भच्यं विलोक्ममान एकं महद्धान्यक्षेचं दवाग्नि-
दग्धं दृष्टं । तन्मध्येर्धदग्धान्बह काकान्दृष्ट्वा तेन गलमोटनपूर्व खादितुं
49 प्रवृत्ताः । ततः सुविचार । आः पापैः किमारब्धं । पूर्व मांसमपि
न खाद्यं किं पुन: काकसत्कं । इदं चंडालोचितं कर्म कस्मादारब्धं
भवद्भिः । ततस्तैरुतं । काका: खाद्या उक्ताः संति । पंडितेनोकं ।
क्व । भौतिकैरुक्तं । मातृकायां । यथा ! क ख ग घ ङ इति केति
काका: खेति खाद्या: गेति गलं मोटयित्वा घेति घना: ऐति डव-
45 दक्रीकृत्य । ततः सुविचारेणाचिंति । मूर्खा एते कल्पितात्पवर्तमाना:
कल्पितेनैव वार्याः इति । ततश्चोक्तं । भी भौतिका भवतामग्रतो मातृ-
कायाति । तैरुक्तं । नायाति । तेनोक्तं । तर्हि तत्रैवाग्रे त थ द ध
नेत्यत्र निषिद्धमस्ति । तैरुतं । कथं । तेनोक्त । तथेति तथापि दधेति
दग्धाः म इति न खाद्या: । ततस्तस्य पंडितस्य वचसा सर्वेपि भौ
20 तिका: काकखादनतो निवृत्ता: ॥ इत्येकचिंशतमी कथा ॥ ३१ ॥
 
3
 
-
 
कुर्वति कलहं मूर्खा: स्वभावेनापि जल्पिते ।
 
पंडितेन समं यद्न्मेघवृष्टी जटी पुरा ॥ १ 47
 
1
 
देवरमणपुरे दिवाकरः पंडितोभूत् । स एकदापि प्राकृतभाषया '
न वदति स्म । एकदा वर्षाकाले पंडितोपरपंडितेन समं ग्रामाद्वहिर्दे-
4 हचिंतायै गतोभूत् । यावता स पंडितः स्वगृहं प्रत्यागच्छति तावतां-
तराले मेघः प्रचुरधाराभिर्वर्षणाय लग्नः । ततः पंडितोवाप्तः क्लेदन-
भयात् कस्यचिनौतिकस्य मयां प्रविष्ट: स्वभावेनापि द्वितीयपंडित-
स्थोक्तं । यथा । वर्षति मेघाः । जटिना तद्वचः श्रुत्वाचिंति । नूनमयं
विद्वान्यां दृष्ट्वा गुप्तगालिं ददानोस्ति । ततो भौतिक उत्याय पंडितस्व
30 वस्त्रांचले विलग्नो वति । मम गर्दभलेन" गालि कस्माददासि ।