This page has been fully proofread once and needs a second look.



जलकर्षणवहनोद्विग्नै: शिष्यैः प्रोक्तमेकदा । अतः परं यः कथयिष्यति
स वहिष्यति । ततोपरलोकैस्ते शिष्यास्तत्त्वं पृष्टाः । तैः सम्यक् स्वरूपं
सर्वलोकानामुक्तं । ततो गुरुमहिमा सर्वोपि जगाम । एवं गुरुभिः
शिष्या न प्रवर्त्तयितव्याः ॥ इत्यष्टाविंशतमी कथा ॥ २८ ॥
 
स्वयमाचरितं मूर्खो विरूपं वक्ति शंकया ।
भौतिकोत्र यथा पूर्वं लंबकाणिप्रभाषक: ॥ १ 42
 
वर्धनग्रामे सोमो नाम जटी वसति स्म । स एकदा स्वयजमानस्य
लोहकारस्य गृहे भिक्षार्थं जगाम । तदा तद्गृहे विजने लोहकर्णकं
पतितं दृष्ट्वेतस्ततो विलोक्य तं लात्वा स्वमठ्यां समागात् । ततः स
शंकयैव भिक्षायै तद्गृहे न कदापि याति । धनिकेन बहु विलोकि-
तोपि कर्णको यदा न लब्धस्तदा पुनरन्यः कृतः । तस्य मनस्यपि
न .....। एवं बहुदिनेषु गतेषु घनिकेनाचिंति । मद्गुरुर्भिक्षायै कुतो
नागच्छति । ततो यजमानेन भौतिको मार्गे मिलितो निमंत्रितः ।
यथा । भो भवद्भिर्मद्गृहे भिक्षार्थ कस्मान्नागम्यते । भवतां केयं लंब-
काणि: । ततो बहुवारमेवं कथ्यमाने भौतिकेन चिंतितं । नूनं वस्तु
मयास्य गृहाद्गृहीतं तस्य लंबकाणिरिति नाम । तदनेन ज्ञातं । यतोयं
यदा मिलति तदा एवमेव वदति यदुत भवतां केयं लंबकाणिरिति ।
तर्हि सदीयं नार्पयिष्यते तदा न क्वूटिष्यते । तत एकस्मिन् दिने तेन
स्वयमेवोक्तं । भोरियं लंबकाणिर्भवदीया या त्वया प्रतिदिनं मार्ग्यते
सा मया भवदीया न ज्ञाता । तेन गृहीता । भवदीया चेत्तर्हि
गृह्यतामिति । ततो धनिकेन धूर्तेन ज्ञातं । योयं मम लोहकर्णो
गतोभूत् सोनेन गृहीतः । तर्हि मार्गयामि । इति स मार्गितः । तेन
शपथपूर्वं प्रत्यर्पिते लोकैः स भौतिको हसितः । एवं न कार्य ॥ इत्ये-
कोनत्रिंशतमी कथा ॥ २९ ॥
 
सुखेन वंच्यते मूर्खो वनिताभिः स्वकल्पनात् ।
उच्छुडुंगरवासिन्या गेहिन्या भौतिको यथा ॥ १ 43
 
करटकग्रामे बहिःस्थपर्वतोपरि मठ्यां कदाग्रही नाम भौतिको
वसति स्म सभार्थः । स भौतिकः स्वभार्याया: शीलं ग्राममध्ये लोकानां
पुरस्तादेवं वर्णयति । यथा । सद्भार्यायाः सदृश्यपरा सती नास्ति ।
तथा च ।