This page has been fully proofread once and needs a second look.



ततः सर्वेपि लोका निवृत्ता: स्वस्थाने गताः ॥ इति सप्तविंशतमी
कथा ॥ २७ ॥
 
यथा तथा न कार्येषु गुरुणापि गुणार्थिना ।
मूर्खाः शिष्याः प्रयोक्तव्या यथा ते क्षेत्रसेचकाः ॥ १ 39
 
मरुस्थल्यां चक्रपुरे नगरे विकटमिश्रनामा भरटकाचार्योभूत् ।
तस्य भूयांसः शिष्याः स्थूलवपुषोभूवन् । महामूर्खा:
 
सकृज्जल्पंति राजानः सकृज्जल्पंति पंडिताः ।
सकृत्कन्या: प्रदीयंते त्रीण्येतानि सकृत् २ ॥ 40
 
इत्यस्य स्थाने
 
सिरिगिरि बोलति राणा ।
सिरिगिरि दीजति काणा ।
सिरिगिरि बोलति पंडिया ।
तीनरिता सिरिगिरि सिरिगिरि ॥ १ ॥ 41
 
युधिष्टिरस्थाने जूठिलु इत्यादिमहाशुद्धपाठपराश्च । एकदा च काल
एकस्यां वृष्टौ जातायां भौतिकभक्तैर्नगरवासिभिः कर्षणानि कृतानि
तानि रूढानि च प्रौढानि । पुनर्भाद्रमासे वृथ्यभावात्तानि शुष्कीभ-
वंति स्म । तत आर्ता लोका आगत्य गुरुभ्यो विज्ञपयंति स्म । यथा ।
कदा वृष्टिर्भविष्यति इति । गुरुणापि भविष्यति २ इतिवचनात्किय-
द्दिनानि जना विप्रतारिताः । तत एकेन जनेनात्याग्रहात्पृष्टैर्गुरुभिरुक्तं ।
एवं यद्यस्माकं भक्तिं करोषि तदा तव कर्षणे वृष्टिर्भविष्यति । ततस्तेन
गुरोः सा कृता । ततो गुरुणा चिंतितं । ममैतावंतो यद्गुरुप्रायाः
शिष्याः संति ते कस्मिन्कार्ये समेष्यंति । कुतो लाभो न गृह्यते । कुतश्च
महत्त्वं नोपार्ज्यते इति । ततो रात्रौ गुरुणा तदीयक्षेत्रं शिष्यपार्श्वाद्वा-
पीतो वारि कर्षयित्वा संपूर्ण कारितं । प्रातः स कर्षक: स्वक्षेत्रं
जलपूरपूर्णं दृष्ट्वा विस्मितः स्वगुरोः प्रभावं लोकानां पुरस्ताद्वर्णयन्
विशेषतो भक्तिं चक्रे । अपरेषु च लोकेषु तथैव गुरोर्भक्तिं कुर्वत्सु
तदीयक्षेत्रेषु रात्रौ गुरुणा शिष्यैः सेककार्यं कृतं । एवं लोकमध्ये गु-
रोर्महिमा जातः । एवं बहुदिनानंतरमेकेन यजमानेन बहुभक्तिपूर्वं
स्वक्षेत्रसेकाय विज्ञप्तं गुरोः । गुरुणोक्तं । तवापि क्षेत्रेद्य वृष्टिर्भविष्यति ।
गुरुणा रात्रौ तस्यापि क्षेत्रं सेचितं । एवं प्रत्यहं क्रियमाणे निरंतर-