This page has been fully proofread once and needs a second look.

III. Text of Bharaṭakadvātrimśikā 41
 
प्रारब्धः । तत एकेन पंडितस्थानीयेन लेखकेनोक्तं । लेख: किं संस्कृतेन
लिखिष्यते प्राकृतेन वा । तावतैकेन गुरुस्थानीयेनोक्तं । भो मूर्खा: स
मंत्री भृशं विद्वानस्ति । अतस्तस्य संस्कृतलेख एव युक्तो न प्राकृतः ।
ततो परैर्भौतिकैः स एव गुरुः पृष्टो लेखयति । यथा । दस अट्ठ
भरडक नदयल तड रह च्छ असरधर महत म कर जम भखन
मरा । इति केवलाक्षरै: संस्कृततया कल्पितैर्लेख: प्रेषितः कस्यापि
तारकहस्तेन । तेन नदीमुत्तीर्य स मंत्रिणोर्पितः । ततो मंत्रिणा लेखं
वाचयित्वा चिंतितं । अहो अस्मद्गुरूणां मौर्ख्यं । अंतर्हसता तेन ते
सर्वेप्यन्नपानप्रेषणेन संतोषिताः ॥ इति षड्विंशतमी कथा ॥ २६॥
 
दैवादापतिते लोकैर्व्यसने दूष्यते नरः ।
सर्वत्रापि यथा मार्गे मुषितो भौतिकः पुरा ॥ १ 37
 
लोटाणकग्रामे कुटको नाम जटी जज्ञे । स एकदा गोदावरी-
तीर्थयात्रायै संघसार्थेन साकं चलितः । मार्गे गच्छतस्तस्य कुत्रापि
विषमे चौरैः शकटं लुटितं । पश्चात्तापवान् स निर्गमितसर्वस्वो गृहे
जगाम । लोकाश्च तद्ग्रामवास्तव्याः किटिकिट्यर्थं तस्य गृहम् आगत्य
पृच्छंति स्म । आः भो भौतिक । किं जातं । कथं शकटं लुंटितं ।
क्व शकटमभूत् । ततो भौतिको वदति स्म । किं क्रियते । दैववशादेव
जातं । शकटं त्वग्रत एवाभूत् । तथापि लुंटितं । पुण्यं कुर्वतोपि
विरूपं लगति । तदा देवस्यैव दूषणं इत्यादि । लोकैरुक्तं । अहो
भौतिक । तत्त्वन्मौर्ख्यं यः शकटमग्रे करोषि । प्रायः प्रथमं चौरा
अग्र एवापतंति । भौतिको वक्ति । किं क्रियते । एवं जातं । पुन-
रपरस्मिंल्लोकवृंदे समागते तथैव पृच्छायां भौतिकेनोक्तं शकटं मध्येभूत्
इति । ततो लोकैरुक्तं । अहो ते महती मूर्खता । को नाम शकटं
मध्ये करोति । चौराणां भूमिस्तु सर्वदायि मध्य एव भवति इत्यादि ।
पुनस्तृतीयलोकवृंदपृच्छायां भौतिकेनोक्तं । यथा । शकटं पश्चादभूत् ।
पुनस्तैरुक्तम् । अहो ते महामौढ्यं । पश्चाच्छकटं को नाम करोति ।
चौरा: सर्वेप्यग्रे सुभटभीताः पश्चाद्रटितं खटितं ग्रहीतुमापतंति । तदा
जटिना तेषां वचनैर्भृशं रुष्टेनोक्तं । यथा । भो लोकाः ।
 
आगलि लीजइ पाछलि लीजइ विचि लीजइ ।
काहउ रे लोको मां उरइ पेटि पइ सीजइ । 38