2023-03-28 11:40:06 by Ravindranatha Menon
This page has been fully proofread once and needs a second look.
सोपि च तथा सहैव पतितः स्वचित्ते चिंतयति । पथिका ज्ञानिन:
सत्यवादिनश्च । यतस्तदुक्तं सर्वं मिलितमिदमहमपि सत्यं मृत एव ।
ततः स भौतिको मृत इव भूमौ पतित्वा स्थितः । न जल्पति
नोत्तिष्टति न श्वसिति च । तत आसन्नस्थैर्लोकैरुत्यापितोपि नोत्ति-
ष्टति वादितोपि न वदति च । ततोपरजटिनां पुरस्ताल्लोकैरुक्तं I
यथा । भवतां दंडको जटी मृत इव पतितोस्ति इति" भूयांसो
भौतिका मिलिताः । तैर्दडको मृत इति धिया संस्कारणाय
यावता कियंतं मार्गं नीयते तावदग्रे द्विमार्गो समागता । तत
एके कथयंति । वामतो यास्यते । अपरे च वदंति । दक्षिणतः ।
एवं सर्वेपि विवदंते । न केनापि निर्णय स्वात् तावता जंपा-
नस्थितेन भौतिकेनोक्तं । भो मा विवदत । वयं यदा जीवंतोभूम
तदा वाममार्गेणागच्छाम । ततः कैश्चिदुक्तं । अहो अयं सर्वदा
सत्यभाषी । एतदुक्तं सर्वं सर्वदा सत्यं भवति । ततो वाममार्गेण
चलतेति । ततः सर्वेपि भौतिकास्तत्र चलिताः । तावता तत्रस्थैः
पथिकैरुक्तं । यथा । भो भौतिका यूयं महामूर्खा: । एतस्य जीवत
एव दाहाय चलिताः । तैरुक्तं । अयं मृतः । पथिकैरुक्तं । नायं.
मृतो यतो जल्पन्नस्ति । तावता तैर्जंपानं भूमो मुक्त्वा स तत्रस्थः
पृष्ट: पथिकज्ञानित्वादिकं सर्वं शपथपूर्वकं वक्ति । ततोपरे भौतिकाः
संदेहादेवमेव स्थिताः । ततः पथिकैर्महाकष्टेन प्रतिबोधिता: स्वस्थाने
गताः । सोप्युत्थाय स्वस्थाने जगाम जनैर्हास्यमानः ॥ इति पंचविंश-
तमी कथा ॥ २५ ॥
यत्तत्स्वकल्पितं मूर्खः शास्त्ररूपेण मन्यते ।
नदीतटस्थितां यद्वल्लेखप्रेषकभौतिकाः ॥ १ 36
बइणपपुरे आंशीर्धरो नाम मंत्री भौतिकभक्तोभूत् । एकदा भू-
यांसो भौतिका ग्रामांनुग्राममटंतस्तत्र पुरपरिसरे समाजग्मुः । तदा
वर्षाकाले भृशं वृष्टौ जातायामंतरालवर्तिन्यां बेन्नानद्यां महापूरोजनि ।
तेन पूरेण रुद्धास्ते । संध्यायां यावता बुभुक्षया म्रियमाणाश्चिंतयंति
स्म । यथा । यजमानाशीर्धरस्य मंत्रिणो लेखप्रेषणेनास्मदागमनं ज्ञा-
प्यते यतः सोस्माकं बुभुक्षितानां सारां करोति स्म । अन्यथा बुभु-
क्षया मरिष्यत आत्मभिः । इत्यभिप्रायेण सर्वैर्मिलित्वा लेखो लिखितुं