This page has been fully proofread once and needs a second look.

III. Text of Bharaṭakadvātrimśikā 39
 
सोपि पृष्टौ लग्नः । तया तु कंटकस्थं वस्त्रद्वयं परिहितं । कौटुंबिक:
स्वगृहे गत्वा भीत्या वेपमान: कोष्टिकामध्ये प्रविष्ट: । पृष्टागतो भौ-
तिकोप्यपरकोष्टिकायां तथैव प्रविष्ट: । एवं प्रहराद्यनंतरं मध्यस्थो
भौतिको वक्ति । किं कल्यसत्कं निष्पन्नं न वेति । ततो धनिको
निर्भयीभूय निर्गतः । भौतिकोपि कर्षित: । पुनस्तथैव गुडमंडकं दत्त्वा
पादयोर्लगित्वा च मठिकां प्रति विसर्जितः प्रोक्तं च । भोस्त्वयातः परं
नागंतव्यं । एवं मूर्खा भवंति ॥ इति त्रयोविंशतमी कथा ॥ २३ ॥
 
अविवेकी नरः प्रायः प्रोक्तोप्यर्थं न बुध्यते ।
मझख्यादिवचोग्राही भौतिकोत्र निदर्शनं ॥ १ 33
 
राजपुरे पुरे केनापि गृहस्थेनासन्नग्रामस्था लोकाः सर्वेपि भोज-
नायाकारिताः । तेषां मध्य एको भौतिको मूर्खः समागतः । पंक्तावु-
पविष्टायां कट्टोरके गृहस्वामिना पानीयं मुक्तं । ततो भौतिकेन पार्श्व-
वर्तिजनपार्श्वे पृष्टं । भोः किमस्य नाम । तेनोक्तं । म झखि इति ।
ततो भौतिकेनाचिंति .... । ततः पंच सरसा: पदशुद्धिमया गणा-
मुक्ता: । तन्नामपृच्छायां प्रोक्तं । उगा इति । पुनर्लपनश्रियाः परि-
वेषणे नामपृच्छायां चुप इति । भोजनादनु सर्वेषां ग्रामगमने भोज-
नव्याख्याने भौतिकेनोक्तं । यथा ।
 
मझखि पड़ी कटोरडइ उमा पडिया पंच ।
अवर न कांई मीठडुं जेहवी मीठी चुप्य ॥ १ 34
 
इति चतुर्विंशतमी कथा ॥ २४ ॥
 
परोक्तमात्रं यस्तथ्यं मन्यते बुद्धिवर्जितः ।
हसनीयः परेषां स शाखारूढो जटी यथा ॥ १ 35
 
एलाकपुरे भूयांसो भौतिका वसति स्म । तत्रैकदा वर्षासन्न एको
दंडको नाम भौतिकः स्वमठ्यर्थं स्थूणानयनाय वने गतः । तत्रैकस्य
वृक्षस्य भृशं प्राध्वरां शाखां दृष्ट्वा छेदनाय तरोरुपरि चटित: ।
ततो भौतिक स्वारूढशाखां मूले छेत्तुं प्रवृत्तः । ततः कैश्चिन्मार्गे
गच्छद्भिः पथिकैस्तं तथा कुर्वंतं दृष्ट्वा प्रोक्तं । भो भौतिक मूर्खराज
मैवं शाखारूढः शाखां छिंद्धि । यत एवं कुर्वतः शाखाच्छेदे पति-
ष्यसि मरिष्यसि च । इत्युक्त्वा पथिकाः स्वस्थाने गताः । भौतिकेन च
तद्वचनमनाकर्ण्य तथैव स्थितेन सा शाखा छिन्ना भूमौ पतिता च ।