This page has been fully proofread once and needs a second look.

38 The thirty-two Bharaṭaka stories.
 
सोमशर्मा गुरुवचसा कुसंगतिं वर्जयन् क्षेमेण स्वपुरे समागतः स्ववि-
द्यया सर्वजनमान्योभूत् ॥ इति द्वाविंशतमी कथा ॥ २२ ॥
 
यः प्रोक्तं नाववुध्येत कार्यकारी भवेन्न सः ।
यथा जटी कर्षकस्य गुडमंडकभक्षकः ॥ १ 32
 
विजयपुरे लोलयो नाम जटी । कस्मिन्नप्यवसरेक्षयतृतीयोत्सवे
कस्यचित्कौटुंबिकस्य गृहे भिक्षार्थं जगाम । तत्र भिक्षायां गुडमिश्रमं-
डको लेभे । स जटिना भक्षितः । तस्य जिह्वायां लग्नः । ततो द्विती-
यदिने स तदर्थी सन् तस्यैव कौटुंबिकस्य गृहे गतः । भिक्षायां दी-
यमानायां तद्भावान्न गृह्णाति । ततो धनिकेन पृष्टं । भोः किं
मार्गयसि । स तन्नामाजानानो मौनमालंब्य स्थितः । ततो बह्वां
वेलायां स्वयमेव वक्ति । कल्यसत्कं देहि । पुन: २ तदुक्तौ धनिके-
नोक्तं । जातं २ कल्यसत्कमेव न स्यात् । तद्वहपक्रमेण भवति ।
ततो जटी वक्ति । यथा भवति तथा क्रियतां । ततो धनिकेन
चिंतितं । किमेतस्य वपुष्मतो लाभो न गृह्यत इति । ततो धनिके-
नोक्तं । मया सह गच्छ यथा कल्यसत्कं निप्पाद्यते । ततः कौटुंबिको
महद्घलं शिरसि निधाय तस्य मस्तके शीताशनभांडिकां स्थापयित्वा
च क्षेत्रं जगाम । मार्गे गच्छता तेन भौतिकस्योक्त । भो यथाहं कथ-
यामि तथा त्वया कर्तव्यं । तेन मौढ्यादेव ज्ञातं यथायं वक्ति यथांहं
करोमि तथा त्वयापि कार्यं इति । ततो गव्यूतप्रमाणे क्षेत्रे तौ द्वा-
वपि गतौ । ततो धनिकेनातिभाराक्रांतेन महद्घलमुत्पाट्य भूमौ क्षिप्तं ।
भरटकेन स्वमस्तकस्था भांडिकापि तथैव क्षिप्ता । ततो धनिकः क्रुद्ध्ये
रक्ताक्षो विरूपाणि भाषयामास । सोपि तथैव जजल्प । ततो धनि-
कोतिकोपात्प्राजनमुत्पाट्य पिट्टनाय धावित: । सोपि हलमुत्पाट्य
धनिकस्य पिट्टनाय धावितः । धनिको भीत्वा गृहं प्रति मुष्टिं बद्ध्वा
पलायित: । सोपि जटी पृष्टौ पलायितस्तथैव कल्यसत्कनिष्पत्तये
ततोग्रे गच्छतो धनिकस्य परिधानवस्त्रं कंटकैर्लग्नं भीत्या न गृहीतं ।
भौतिकेनापि तत्र यातेन निजपरिधानं छोटयित्वा तत्र मुक्तं । तत्र
ग्रामासन्ने समागते कौटुंबिके कयाचिद्धनिकया भक्ते गच्छंत्या स्वोत्त-
रच्छदवस्त्रं कौटुंबिकाय दत्तं । स तत्परिधाय गृहे गतः । ततोनं-
तरागतेन भौतिकेन तस्याः परिधानवस्त्रं कर्षयित्वा परिहितं । तथैव