2023-03-28 11:46:55 by Ravindranatha Menon
This page has been fully proofread once and needs a second look.
III. Text of Bharaṭakadvātrimśikā 37
ग्रामभट्टानां च । ततः शिरसि शिक्षां दत्त्वा सोमशर्मा यावता च-
लितो मार्गांतराल आगच्छन् बेडाकग्रामे प्राप्तस्तावता वृष्टौ समाग-
तायामन्यत्रोत्तारकाभावात्कस्यचिद्ग्रामभट्टस्य गृहे रात्रौ वासके स्थितः ।
पुस्तकगोण्यो गृहांतरुत्तारिताः । रात्रौ ग्रामभट्टेन वार्त्तासु क्रियमा-
णासु ग्रामभट्टेन संदेह: पृष्टः । यथा । ऊंदिराणां तीतरी नाठी
कांसा काणा इति । एतस्य गद्यस्य पुरा बहूनामपि पंडितानां पार्श्वेर्थ:
पृष्टंः परं केनापि नोक्तः । गद्यं तु पूर्वपरंपरागतं । अतो यूयं कथय-
तार्थं । ततः पंडितेन तस्वार्थमजानानेन वार्तांतरैस्तमाक्षिप्य रात्रि-
र्नीता । प्रातरग्रतश्चलते सः । द्वितीयदिने तु सूणकग्रामे समागतः
पंडित:। अपरत्र स्थानाभावाद्भरटकमठ्यामेव स्थितः । ततस्तैरपि तथैव
संदेहः पृष्टः । यथा । जथडि भुंजंति भरड भसंगी मुखी गोरी उरि
पांडुरी ताथडि भुंजंति भंभा देवी सपतयतालभसमम ॥ १ एतस्य
श्लोकस्यार्थ: पुरा केनापि पंडितेन नाकथि । अतो भवंतः कथयंतु ।
पंडितस्तच्छ्लोकं श्रुत्वा तदर्थमजानानः श्यामास्यश्चिंतयति । अहो अहं
गुरुणा किमपि तथाविधं न भाणितो येन तल्लोकानामुत्तरदानेपि
समर्थो भवामि । अतः किं गृहगमनेन । प्रथमकवल एव मक्षिकापात: ।
स्थानद्वयेपि संदेहद्वयमकिंचिज्ज्ञौ: पृष्टं । तन्मध्ये एकोपि संदेहो न
ज्ञातो न च भग्नः । ततः पश्चाद्गत्वा पुनरध्येमि । इति विमृश्य पुनः
पश्चाद्गुरुपार्श्वे गतः कथितं च गुरोः । भोः श्रीगुरुमिश्राः प्रभुभिरहं
किं भाणित: । यतः स्वस्थाने गच्छतो मम संदेहौ मूर्खाभ्यां पृष्टौ ।
तावपि न भग्नौ । ततोग्रतः किं गच्छामीत्युक्त्वा तत्संदेहद्वयं गुरोः
पार्श्वे पृष्टं । गुरुरपि न वेत्ति । ततो गुरुणा रात्रौ सरस्वतीमाराध्य
तत्संदेहद्वयं पृष्टं । ततो भारत्योक्तं । इदं गद्यपद्यरूपद्वयं कूटं वर्तते ।
ततोर्थो न ज्ञायते । ततः शृणु । एतयो: सत्य: पाठो यथा । इंद्रि-
याणां तृप्तिर्नास्ति कस्मात्कारणात् । तथा ।
यत्र भुंजति भस्मांगो मूर्खो वा यदि पंडितः ।
तत्र भुंजाम्यहं देवि सपत्नीको भवे २ ॥ १ 31
ततः सत्यपाठो गुरुणा प्रात: शिष्याग्रे प्रोक्त: । पुन: प्रोक्तं । अतः
परं भवता सर्वप्रकारैर्ग्रामभट्टभरटकयो: संसर्गो वर्जनीयः । ततः